New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 7

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्⁠।।⁠8.7⁠।।

tasmātsarveṣu kāleṣu māmanusmara yudhya ca mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayam

Word by word
tasmāt
therefore
इसलिये
sarveṣu
in all
सब
kāleṣu
times
समयों में
mām
me
मुझको
anusmara
remember
स्मरण कर
yudhya
fight
युद्ध कर
ca
and
और
mayi
to me
मुझमें
arpita
surrender
अर्पण किये हुए
manaḥ
mind
मन
buddhiḥ
intellect
बुद्धिवाला
mām
to me
मुझको
eva
surely
ही
eṣyasi
you shall attain
प्राप्त होगा
asanśayaḥ
without a doubt
नि:संदेह

Translation

Save

Therefore, at all times, remember Me only and fight. With your mind and intellect fixed on Me, you will undoubtedly come to Me alone.

— Swami Sivananda

इसलिये तू सब समयमें मेरा स्मरण कर और युद्ध भी कर। मेरेमें मन और बुद्धि अर्पित करनेवाला तू निःसन्देह मेरेको ही प्राप्त होगा।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम्। युध्य च युद्धं च स्वधर्मं कुरु। मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव स त्वं मयि अर्पितमनोबुद्धिः सन् मामेव यथास्मृतम् एष्यसि आगमिष्यसि असंशयः न संशयः अत्र विद्यते।।किञ्च --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

तस्मात् सर्वेषु कालेषु आप्रयाणाद् अहरहः माम् अनुस्मर अहरहः अनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धिश्रुतिस्मृतिचोदितनित्यनैमित्तिकं च कर्म कुरु। एतदुपायेन मय्यर्पितमनोबुद्धिः अन्तकाले च माम् एव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि न अत्र संशयः।एवं सामान्येन सर्वत्र स्वप्राप्यावाप्तिः अन्त्यप्रत्ययाधीना इति उक्त्वा तदर्थं त्रयाणाम् उपासनप्रकारभेदं वक्तुम् उपक्रमते। तत्र ऐश्वर्यार्थिनाम् उपासनप्रकारं यथोपासनम् अन्त्यप्रत्ययकारकं च आह --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

।।8.6 -- 8.7।।स्मरन्पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदित्यन्त इति विशेषणम् सुमतेनव शङ्कावकाशः।स्मरंस्त्यजति इत्येककालीनत्वप्रतीतेः। दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति शङ्का।त्यजन्देहं न कश्चित्तु मोहमाप्नोत्यसंशयम् इति स्कान्दे। तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति [बृ.उ.4।4।2] इति हि श्रुतिः।सदा तद्भावभावितः,इत्यन्तकालस्मरणोपायमाह -- भावोऽन्तर्गतं मनः तथाभिधानात्। भावितत्वं अतिवासितत्वम्।भावना त्वतिवासना इत्यभिधानात्।

— Madhvācārya

Verse 7 of 28 · Chapter 8