New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 6

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः⁠।।⁠8.6⁠।।

yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalevaram taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ

Word by word
yam yam
whatever
जिस-जिस
or
अथवा
api
even
भी
smaran
remembering
स्मरण करता हुआ
bhāvam
remembrance
भाव को
tyajati
gives up
त्यागता है
ante
in the end
अन्तकाल में
kalevaram
the body
शरीर को
tam
to that
उस-उसको
tam
to that
उस-उसको
eva
certainly
ही
eti
gets
प्राप्त होता है
kaunteya
Arjun, the son of Kunti
हे कुन्तीपुत्र!
sadā
always
सदा
tat
that
उस
bhāva-bhāvitaḥ
absorbed in contemplation
भाव से भावित हुआ

Translation

Save

Whoever at the end leaves the body, thinking of any being, to that being only does he go, O son of Kunti (Arjuna), due to his constant thought of that being.

— Swami Sivananda

हे कुन्तीपुत्र अर्जुन ! मनुष्य अन्तकाल में जिस-जिस भी भावका स्मरण करते हुए शरीर छोड़ता है वह उस (अन्तकालके) भावसे सदा भावित होता हुआ उस-उसको ही प्राप्त होता है अर्थात् उस-उस योनिमें ही चला जाता है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेवरं शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन्।।यस्मात् एवम् अन्त्या भावना देहान्तरप्राप्तौ कारणम् --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

अन्ते अन्तकाले यं यं वा अपि भावं स्मरन् कलेवरं त्यजति तं तं भावम् एव मरणान्तरम् एति। अन्त्यप्रत्ययश्च पूर्वभावितविषय एव जायते।यस्मात् पूर्वकालाभ्यस्तविषये एव अन्त्यप्रत्ययो जायते --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

।।8.6 -- 8.7।।स्मरन्पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदित्यन्त इति विशेषणम् सुमतेनव शङ्कावकाशः।स्मरंस्त्यजति इत्येककालीनत्वप्रतीतेः। दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति शङ्का।त्यजन्देहं न कश्चित्तु मोहमाप्नोत्यसंशयम् इति स्कान्दे। तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति [बृ.उ.4।4।2] इति हि श्रुतिः।सदा तद्भावभावितः इत्यन्तकालस्मरणोपायमाह -- भावोऽन्तर्गतं मनः तथाभिधानात्। भावितत्वं अतिवासितत्वम्।भावना त्वतिवासना इत्यभिधानात्।

— Madhvācārya

Verse 6 of 28 · Chapter 8