New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 14

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः⁠।।⁠8.14⁠।।

ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ

Word by word
ananya-cetāḥ
without deviation of the mind
अनन्यचित्तवाला
satatam
always
निरन्तर
yaḥ
who
जो
mām
me
मुझको
smarati
remembers
स्मरण करता है
nityaśaḥ
regularly
नित्य-निरन्तर
tasya
to him
उसके लिये
aham
I
मैं
su-labhaḥ
easily attainable
सुलभ हूँ
pārtha
Arjun, the son of Pritha
हे पार्थ!
nitya
constantly
नित्य
yuktasya
engaged
युक्त
yoginaḥ
of the yogis
योगी के लिये

Translation

Save

I am easily attainable by that ever-steadfast yogi who constantly and daily remembers me for a long time, not thinking of anything else with a single-minded or one-pointed focus, O Partha.

— Swami Sivananda

हे पृथानन्दन ! अनन्यचित्तवाला जो मनुष्य मेरा नित्य-निरन्तर स्मरण करता है, उस नित्ययुक्त योगीके लिये मैं सुलभ हूँ अर्थात् उसको सुलभतासे प्राप्त हो जाता हूँ।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्यचेताः योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः। सततम् इति नैरन्तर्यम् उच्यते नित्यशः इति दीर्घकालत्वम् उच्यते। न षण्मासं संवत्सरं वा किं तर्हि यावज्जीवं नैरन्तर्येण यः मां स्मरतीत्यर्थः। तस्य योगिनः अहं सुलभः सुखेन लभ्यः हे पार्थ नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः। यतः एवम् अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत्।।तव सौलभ्येन किं स्यात् इत्युच्यते श्रृणु तत् मम सौलभ्येन यत् भवति --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

नित्यशो माम् उद्योगप्रभृति सततं सर्वकालम् अनन्यचेताः यः स्मरति अत्यर्थं मत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणम् अलभमानो निरतिशयप्रियां स्मृतिं यः करोति तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहम् एव प्राप्यः न मद्भाव ऐश्वर्यादिकः।सुप्रापश्च तद्वियोगम् असहमानः अहम् एव तं वृणे मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनम् अत्यर्थं मत्प्रियत्वादिकं च अहम् एव ददामि इत्यर्थः।यमेवैष वृणुते तेन लभ्यः (मु0 3।2।3) इति हि श्रूयते वक्ष्यते च।तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता।। (गीता 10।1011) इति।अतः परम् अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्च अपुनरावृत्तिम् ऐश्वर्यार्थिनः पुनरावृत्तिं च आह --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

नित्ययुक्तस्य नित्योपायवतः। योगिनः परिपूर्णयोगस्य।

— Madhvācārya

Verse 14 of 28 · Chapter 8