New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 13

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्। यः प्रयाति त्यजन्देहं स याति परमां गतिम्⁠।।⁠8.13⁠।।

omityekākṣaraṁ brahma vyāharanmāmanusmaran yaḥ prayāti tyajandehaṁ sa yāti paramāṁ gatim

Word by word
om
sacred syllable representing the formless aspect of God
ओम्
iti
thus
इस
eka-akṣaram
one syllabled
एक अक्षररूप
brahma
the Absolute Truth
ब्रह्म का
vyāharan
chanting
उच्चारण करता हुआ
mām
me (Shree Krishna)
मुझको
anusmaran
remembering
स्मरण करता हुआ
yaḥ
who
जो
prayāti
departs
जाता है
tyajan
quitting
त्यागकर
deham
the body
शरीर को
saḥ
he
वह
yāti
attains
प्राप्त होता है
paramām
the supreme
परम
gatim
goal
गति को

Translation

Save

Uttering the one-syllabled Om, the Brahman, and remembering Me, he who departs, leaving the body, attains the Supreme Goal.

— Swami Sivananda

।।8.12 -- 8.13।। (इन्द्रियोंके) सम्पूर्ण द्वारोंको रोककर मनका हृदयमें निरोध करके और अपने प्राणोंको मस्तकमें स्थापित करके योगधारणामें सम्यक् प्रकारसे स्थित हुआ जो साधक  'ऊँ' इस एक अक्षर ब्रह्मका उच्चारण और मेरा स्मरण करता हुआ शरीरको छोड़कर जाता है, वह परमगतिको प्राप्त होता है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारं व्याहरन् उच्चारयन् तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः,प्रयाति म्रियते सः त्यजन् परित्यजन् देहं शरीरम् -- त्यजन् देहम् इति प्रयाणविशेषणार्थम् देहत्यागेन प्रयाणम् आत्मनः न स्वरूपनाशेनेत्यर्थः -- सः एवं याति गच्छति परमां प्रकृष्टां गतिम्।।किञ्च --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

सर्वाणि श्रोत्रादीनि इन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य हृदयकमलनिविष्टे मयि अक्षरे मनो निरुध्य योगाख्यां धारणां आस्थितः मयि एव निश्चलां स्थितिम् आस्थितः।ओम् इति एकाक्षरं ब्रह्म मद्वाचकं व्याहरन् वाच्यं माम् अनुस्मरन् आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारम् अपुनरावृत्तिम् आत्मानं प्राप्नोति इत्यर्थःयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। (गीता 8।2021) इति अनन्तरम् एव वक्ष्यते। एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणः भगवदुपासनप्रकार उक्तः। अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिकारं च आह --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

।।8.12 -- 8.13।।ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्यनिर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि इत्यादिवचनात् व्यासयोगे मोक्षधर्मे च। हृदि नारायणे।ह्रियते त्वया जगद्यस्माद्धृदित्येवं प्रभाषसे इति पाद्मे। नहि मूर्धनि प्राणे स्थिते हृदि मनसः स्थितिः सम्भवति।यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा इति व्यासयोगे। योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः।

— Madhvācārya

Verse 13 of 28 · Chapter 8