New to the Gītā? Start here — a ninety-second orientation.

Chapter 3 · Verse 6

Karma-yogaḥ · कर्मयोगः

Scroll ↓

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते⁠।।⁠3.6⁠।।

karmendriyāṇi saṁyamya ya āste manasā smaran indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate

Word by word
karma-indriyāṇi
the organs of action
कर्मेन्द्रियों को
sanyamya
restrain
रोककर
yaḥ
who
जो
āste
remain
रहता है
manasā
in the mind
मन से
smaran
to remember
स्मरण करता हुआ
indriya-arthān
sense objects
इन्द्रियों के विषयों का
vimūḍha-ātmā
the deluded
मूढ़बुद्धिवाला
mithyā-ācāraḥ
hypocrite
मिथ्याचारी
saḥ
they
वह
ucyate
are called
कहा जाता है

Translation

Save

He who, restraining the organs of action, sits thinking of the sense-objects in his mind, he of deluded understanding is called a hypocrite.

— Swami Sivananda

जो कर्मेन्द्रियों- (सम्पूर्ण इन्द्रियों-) को हठपूर्वक रोककर मनसे इन्द्रियोंके विषयोंका चिन्तन करता रहता है, वह मूढ़ बुद्धिवाला मनुष्य मिथ्याचारी (मिथ्या आचरण करनेवाला) कहा जाता है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः सः उच्यते।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

अविनष्टपापतया अजितबाह्यान्तःकरण आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमनाः विषयान् एव स्मरन् य आस्ते अन्यथा संकल्प्य अन्यथा चरति इति स मिथ्याचारः उच्यते आत्मज्ञानाय उद्युक्तो विपरीतो विनष्टो भवति इत्यर्थः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

।।3.6 3.7।।तथापि शक्तितः त्यागः कार्य इत्याह कर्मेन्द्रियाणीति। मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह मनसा स्मरन् मनसा नियम्येति। कर्मयोगं स्ववर्णाश्रमोचितम्। न तु गृहस्थकर्मैवेति नियमः सन्न्यासादिविधानात् सामान्यवचनाच्च।

— Madhvācārya

Verse 6 of 43 · Chapter 3