New to the Gītā? Start here — a ninety-second orientation.
Chapter 3 · Verse 14
Karma-yogaḥ · कर्मयोगः
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।3.14।।
annādbhavanti bhūtāni parjanyādannasambhavaḥ yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ
Advaita — ŚaṅkaraŚaṅkara Bhāṣya
मूलम् / Sanskrit original
अन्नात् भुक्तात् लोहितरेतःपरिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि। पर्जन्यात् वृष्टेः अन्नस्य संभवः अन्नसंभवः। यज्ञात् भवति पर्जन्यः अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः (मनु0 3.76) इति स्मृतेः। यज्ञः अपूर्वम्। स च यज्ञः कर्मसमुद्भवः ऋत्विग्यजमानयोश्च व्यापारः कर्म तत् समुद्भवः यस्य यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः।।तञ्चैवंविधं कर्म कुतो जातमित्याह
— Śaṅkarācārya

Viśiṣṭādvaita — RāmānujaRāmānuja Bhāṣya
मूलम् / Sanskrit original
अन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याद् अन्नसंभवः इति सर्वलोकसाक्षिकम्। यज्ञात् पर्जन्यो भवति इति च शास्त्रेण अवगम्यते अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।। (मनु0 3।76) इत्यादिना। यज्ञः च द्रव्यार्जनादिकर्तृपुरुषव्यापाररूपकर्मसमुद्भवः।
— Rāmānujācārya

Dvaita — MadhvaMadhva Bhāṣya
मूलम् / Sanskrit original
हेत्वन्तरमाह अन्नादिति। यज्ञः पर्जन्यत्वात्तत्कारणमुच्यते। पूर्वयज्ञविवक्षायां तस्य चक्रप्रवेशो न भवति तद्व्यापाद्यं कर्मविधये। न तु साम्यमात्रेणेदानीं कार्यम्। मेघचक्राभिमानी पर्जन्यः। तच्च यज्ञाद्भवति।अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः 3।76 इति (मनु) स्मृतेश्च। उभयवचनाच्चादित्यात्समुद्राच्चाविरोधः। अतश्च यज्ञात्पर्जन्योद्भवः सम्भवति। यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः। कर्म इतरक्रिया।
— Madhvācārya

Verse 14 of 43 · Chapter 3