New to the Gītā? Start here — a ninety-second orientation.

Chapter 2 · Verse 9

Sāṅkhya-yogaḥ · सांख्ययोगः

Scroll ↓

सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह⁠।।⁠2.9⁠।।

sañjaya uvāca evamuktvā hṛṣīkeśaṁ guḍākeśaḥ parantapa na yotsya iti govindamuktvā tūṣṇīṁ babhūva ha

Word by word
sañjayaḥ uvāca
Sanjay said
संजय ने कहा
evam
thus
इस प्रकार
uktvā
having spoken
कहकर
hṛṣīkeśam
to Shree Krishna, the master of the mind and senses
हृषीकेश (श्रीकृष्ण) के प्रति
guḍākeśaḥ
Arjun, the conquerer of sleep
गुडाकेश (अर्जुन)
parantapaḥ
Arjun, the chastiser of the enemies
परन्तप (अर्जुन)
na yotsye
I shall not fight
मैं युद्ध नहीं करूँगा
iti
thus
ऐसा
govindam
Krishna, the giver of pleasure to the senses
गोविन्द (श्रीकृष्ण) से
uktvā
having addressed
कहकर
tūṣṇīm
silent
चुप
babhūva
became ha
हो गया

Translation

Save

Sanjaya said: Having spoken thus to Hrishikesha, the Lord of the senses, Arjuna, the conqueror of sleep and destroyer of foes, said, "I will not fight," and became silent.

— Swami Sivananda

संजय बोले - हे शत्रुतापन धृतराष्ट्र! ऐसा कहकर निद्राको जीतनेवाले अर्जुन अन्तर्यामी भगवान् गोविन्दसे 'मैं युद्ध नहीं करूँगा' ऐसा साफ-साफ कहकर चुप हो गये।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

2.9 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

संजय उवाच एवं अस्थाने समुपस्थितस्नेहकारुण्याभ्याम् अप्रकृतिं गतं क्षत्रियाणां युद्धं परमं धर्मम् अपि अधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थम् उद्दिश्य आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्य स्वधर्मस्य आत्मयाथार्थ्यप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति इति मत्वा भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम्। तदुक्तम्अस्थाने स्नेहकारुण्यधर्माधर्मधियाकुलम्। पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्।। (गीतार्थसंग्रह 5) इति।।तम् एवं देहात्मनोः याथात्म्यज्ञाननिमित्तशोकाविष्टं देहातिरिक्तात्मज्ञाननिमित्तिं च धर्मं भाषमाणं परस्परं विरुद्धगुणान्वितम् उभयोः सेनयोः युद्धाय उद्युक्तयोः मध्ये अकस्मात् निरुद्योगं पार्थम् आलोक्य परमपुरुषः प्रहसन् इव इदम् उवाच। परिहासवाक्यं वदन् इव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरम्न त्वेवाहं जातु नासम् (गीता 2।12) इत्यारभ्यअहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः। (गीता 18।66) इत्येतदन्तम् उवाच इत्यर्थः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

Sri Madhvacharya did not comment on this sloka. The commentary starts from 2.11.

— Madhvācārya

Verse 9 of 72 · Chapter 2