New to the Gītā? Start here — a ninety-second orientation.
Chapter 9 · Verse 20
Rāja-vidyā-rāja-guhya-yogaḥ · राजविद्याराजगुह्ययोगः
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोक मश्नन्ति दिव्यान्दिवि देवभोगान्।।9.20।।
traividyā māṁ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṁ prārthayante te puṇyamāsādya surendraloka maśnanti divyāndivi devabhogān
Advaita — ŚaṅkaraŚaṅkara Bhāṣya
मूलम् / Sanskrit original
--,त्रैविद्याः ऋग्यजुःसामविदः मां वस्वादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोमपाः? तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषाः? यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिः ताम्? प्रार्थयन्ते। ते च पुण्यं पुण्यफलम् आसाद्य संप्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यान् दिवि भवान् अप्राकृतान् देवभोगान् देवानां भोगान्।।
— Śaṅkarācārya

Viśiṣṭādvaita — RāmānujaRāmānuja Bhāṣya
मूलम् / Sanskrit original
ऋग्यजुः सामरूपाः तिस्रो विद्याः त्रिविद्यम्? केवलं त्रिविद्यनिष्ठाः त्रैविद्याः। न तु त्रय्यन्तं निष्ठाः? त्रय्यन्तनिष्ठा हि महात्मानः पूर्वोक्तप्रकारेण अखिलवेदवेद्यं माम् एव ज्ञात्वा अतिमात्रमद्भक्तिकारितकीर्तनादिभिः ज्ञानयज्ञेन च मदेकप्राप्या माम् एव उपासते।त्रैविद्याः तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्तः पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात् पूताः तैः केवलेन्द्रादिदैवत्यतया अनुसंहितैः यज्ञैः वस्तुतः तद्रूपं माम् इष्ट्वा तथा अवस्थितं माम् अजानन्तः स्वर्गतिं प्रार्थयन्ते। ते पुण्यं दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र दिव्यान् देवभोगान् अश्नन्ति।
— Rāmānujācārya

Dvaita — MadhvaMadhva Bhāṣya
मूलम् / Sanskrit original
।।9.20 -- 9.21।।तथापि मद्भजनमेवान्यदेवताभजनाद्वरमिति दर्शयति -- त्रैविद्या इत्यादिना।
— Madhvācārya

Verse 20 of 34 · Chapter 9