Anandoham Health

Chapter 9 · Verse 15

Rāja-vidyā-rāja-guhya-yogaḥ · राजविद्याराजगुह्ययोगः

Scroll ↓

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्⁠।।⁠9.15⁠।।

jñānayajñena cāpyanye yajanto māmupāsate ekatvena pṛthaktvena bahudhā viśvatomukham

Word by word
jñāna-yajñena
yajña of cultivating knowledge
ca
and
api
also
anye
others
yajantaḥ
worship
mām
me
upāsate
worship
ekatvena
undifferentiated oneness
pṛthaktvena
separately
bahudhā
various
viśwataḥ-mukham
the cosmic form

Translation

Others also, sacrificing with the wisdom-sacrifice, worship Me, the All-Faced, as one, distinct, and manifold.

— Swami Sivananda

दूसरे साधक ज्ञानयज्ञके द्वारा एकीभावसे (अभेद-भावसे) मेरा पूजन करते हुए मेरी उपासना करते हैं और दूसरे कई साधक अपनेको पृथक् मानकर चारों तरफ मुखवाले मेरे विराट्ररुपकी अर्थात् संसारको मेरा विराट्ररुप मानकर (सेव्य-सेवकभावसे) मेरी अनेक प्रकारसे उपासना करते हैं।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

The Śaṅkara Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

-- --,ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन? यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते। तच्च ज्ञानम् -- एकत्वेन एकमेव परं ब्रह्म इति परमार्थदर्शनेन यजन्तः उपासते। केचिच्च पृथक्त्वेन, आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः इति उपासते। केचित् बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरुपः इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते।।यदि बहुभिः प्रकारैः उपासते? कथं त्वामेव उपासते इति? अत आह --,

— Śaṅkarācārya

मूलम् / Sanskrit

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

The Rāmānuja Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

अन्ये अपि महात्मानः पूर्वोक्तैः कीर्तनादिभिः ज्ञानाख्येन यज्ञेन च यजन्तः माम् उपासते? कथम् बहुधा पृथक्त्वेन जगदाकारेण विश्वतोमुखं विश्वप्रकारम् अवस्थितं माम् एकत्वेन उपासते।एतद् उक्तं भवति भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरः सन् सत्यसंकल्पः विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्याम् इति संकल्प्य स एकदेव एव तिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरः अवतिष्ठते इति अनुसंदधानाश्च माम् उपासते इति।तथा हि विश्वशरीरः अहम् एव अवस्थितः? इति आह --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

The Madhva Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

सर्वत्र एक एव नारायणः स्थितः इत्येकत्वेन? पृथक्त्वेन सर्वतो वैलक्षण्येन। बहुधा हि तस्य रूपं,आभाति शुक्लमिव लोहितमिवाथो नीलमथोऽर्जुनं इति सनत्सुजाते [म.भा.5।44।26]दैवमेवापरे [4।25] इत्युक्तप्रकारेण बहवो वा बहुधा।

— Madhvācārya

Verse 15 of 34 · Chapter 9