New to the Gītā? Start here — a ninety-second orientation.

Chapter 9 · Verse 13

Rāja-vidyā-rāja-guhya-yogaḥ · राजविद्याराजगुह्ययोगः

Scroll ↓

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्⁠।।⁠9.13⁠।।

mahātmānastu māṁ pārtha daivīṁ prakṛtimāśritāḥ bhajantyananyamanaso jñātvā bhūtādimavyayam

Word by word
mahā-ātmānaḥ
the great souls
महात्मा लोग
tu
but
तो
mām
me
मुझको
pārtha
Arjun, the son of Pritha
हे पार्थ!
daivīm prakṛtim
divine energy
दैवी प्रकृति के
āśritāḥ
take shelter of
आश्रित होकर
bhajanti
engage in devotion
भजते हैं
ananya-manasaḥ
with mind fixed exclusively
अनन्यचित्त से
jñātvā
knowing
जानकर
bhūta
all creation
प्राणियों का
ādim
the origin
आदि
avyayam
imperishable
अविनाशी

Translation

Save

But the great souls, O Arjuna, partaking of My divine nature, worship Me with a single-minded devotion, knowing Me as the imperishable source of all beings.

— Swami Sivananda

परन्तु हे पृथानन्दन ! दैवी प्रकृतिके आश्रित अनन्यमनवाले महात्मालोग मुझे सम्पूर्ण प्राणियोंका आदि और अविनाशी समझकर मेरा भजन करते हैं।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति सेवन्ते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां वियदादीनां प्राणिनां च आदिं कारणम् अव्ययम्।।कथम् -- --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणम् उपगम्य विध्वस्तसमस्तपापबन्धाः दैवीं प्रकृतिम् आश्रिताः महात्मानः ते? भूतादिम् अव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेन अवतीर्णं मां ज्ञात्वा अनन्यमनसः मां भजन्ते मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसः च आत्मनः च बाह्यकरणानां च धारणम् अलभमानाः? मद्भजनैकप्रयोजनाः भजन्ते।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

नेतरे द्विषन्तीति दर्शयितुं देवानाह -- महात्मान इति।

— Madhvācārya

Verse 13 of 34 · Chapter 9