New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 9

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

कविं पुराणमनुशासितार मणोरणीयांसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूप मादित्यवर्णं तमसः परस्तात्⁠।।⁠8.9⁠।।

kaviṁ purāṇamanuśāsitāra maṇoraṇīyāṁsamanusmaredyaḥ sarvasya dhātāramacintyarūpa mādityavarṇaṁ tamasaḥ parastāt

Word by word
kavim
poet
सर्वज्ञ
purāṇam
ancient
पुरातन
anuśāsitāram
the controller
शासन करनेवाले
aṇoḥ
than the atom
अणु से
aṇīyānsam
smaller
सूक्ष्म
anusmaret
always remembers
स्मरण करता है
yaḥ
who
जो
sarvasya
of everything
सबके
dhātāram
the support
धारण-पोषण करनेवाले
acintya
inconceivable
अचिन्त्य
rūpam
divine form
स्वरूप
āditya-varṇam
effulgent like the sun
सूर्य के समान प्रकाशमान
tamasaḥ
to the darkness of ignorance
अन्धकार से
parastāt
beyond
परे

Translation

Save

Whosoever meditates on the Omniscient, the Ancient, the Ruler of the whole world, minuter than an atom, the supporter of all, of inconceivable form, effulgent like the sun and beyond the darkness of ignorance.

— Swami Sivananda

जो सर्वज्ञ, पुराण, शासन करनेवाला, सूक्ष्म-से-सूक्ष्म, सबका धारण-पोषण करनेवाला, अज्ञानसे अत्यन्त परे, सूर्यकी तरह प्रकाशस्वरूप -- ऐसे अचिन्त्य स्वरूपका चिन्तन करता है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् यः कश्चित् सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम् अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केनचित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम् आदित्यवर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तम् आदित्यवर्णम् तमसः परस्तात् अज्ञानलक्षणात् मोहान्धकारात् परं तम् अनुचिन्तयत् याति इति पूर्वेण संबन्धः।।किञ्च --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

कविं सर्वज्ञं पुराणं पुरातनम् अनुशासितारं विश्वस्य प्रशासितारम् अणोः अणीयांसं जीवाद् अपि सूक्ष्मतरं सर्वस्य धातारं सर्वस्य स्रष्टारम् अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम् आदित्यवर्णं तमसः परस्तात् अप्राकृतस्वासाधारणदिव्यरूपम् तम् एवंभूतम् अहरहः अभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोः मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भ्रुवोर्मध्ये दिव्यं पुरुषं यः अनुस्मरेत् स तम् एव उपैति तद्भावं याति तत्समानैश्वर्यो भवति इत्यर्थः।अथ कैवल्यार्थिनां स्मरणप्रकारम् आह --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

ध्येयमाह -- कविभिति। कविं सर्वज्ञम् यः सर्वज्ञः [मुं.उ.1।9] इति श्रुतेः।त्वं कविः सर्ववेदनात् इति च ब्राह्मे। धातारं धारणपोषणकर्तारम्डुधाञ् धारणपोषणयोः [धा.पा.3।10] इति धातोः। धाता विधाता परमोत सन्दृक् इति च श्रुतिः।ब्रह्मा स्थाणुः इत्यारभ्यतस्य प्रसादादिच्छन्ति (ते तत्प्रसादाद्गच्छन्ति) तदादिष्टफलां गतिम् [म.भा.12।334।3539] इति च मोक्षधर्मे। तमसोऽव्यक्तात्परतः स्थितम्। तपसः परस्तादित्यव्यक्तं वै तमः परस्ताद्धि सततः इति पिप्पलादशाखायाम् मत्युर्वाव तमो मृत्युर्वा मृत्युर्वै तमो ज्योतिरमृतम् [बृ.उ.1।3।28] इति श्रुतेः।

— Madhvācārya

Verse 9 of 28 · Chapter 8