New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 26

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः⁠।।⁠8.26⁠।।

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate ekayā yātyanāvṛttimanyayā''vartate punaḥ

Word by word
śukla
bright
शुक्ल
kṛṣṇe
dark
कृष्ण
gatī
paths
मार्ग
hi
certainly
निश्चय ही
ete
these
ये
jagataḥ
of the material world
जगत् के
śāśvate
eternal
सनातन
mate
opinion
माने गये हैं
ekayā
by one
एक से
yāti
goes
जाता है
anāvṛttim
to non return
अनावृत्ति को
anyayā
by the other
दूसरे से
āvartate
comes back
लौट आता है
punaḥ
again
फिर

Translation

Save

The bright and dark paths of the world are thought to be eternal; one leads to no return, and the other leads to return.

— Swami Sivananda

क्योंकि शुक्ल और कृष्ण -- ये दोनों गतियाँ अनादिकालसे जगत्-(प्राणिमात्र-) के साथ सम्बन्ध रखनेवाली मानी गई हैं। इनमेंसे एक गतिमें जानेवालेको लौटना नहीं पड़ता और दूसरी गतिमें जानेवालेको लौटना पड़ता है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे ज्ञानप्रकाशकत्वात् शुक्ला तदभावात् कृष्णा एते शुक्लकृष्णे हि गती जगतः इति अधिकृतानां ज्ञानकर्मणोः न जगतः सर्वस्यैव एते गती संभवतः शाश्वते नित्ये संसारस्य नित्यत्वात् मते अभिप्रेते। तत्र एकया शुक्लया याति अनावृत्तिम् अन्यया इतरया आवर्तते पुनः भूयः।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

शुक्ला गतिः अर्चिरादिका कृष्णा च धूमादिका। शुक्लया अनावृत्तिं यान्ति कृष्णया तु पुनः आवर्तन्ते। एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते।तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमभिसंभवन्ति। (छा0 उ0 5।10।1)अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति (छा0 उ0 5।10।3) इति।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

Sri Madhvacharya did not comment on this sloka.

— Madhvācārya

Verse 26 of 28 · Chapter 8