New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 23

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ⁠।।⁠8.23⁠।।

yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha

Word by word
yatra
where
जिस
kāle
time
काल में
tu
certainly
तो
anāvṛttim
no return
अनावृत्ति को
āvṛttim
return
आवृत्ति को
ca
and
और
eva
certainly
ही
yoginaḥ
a yogi
योगी
prayātāḥ
having departed
गये हुए
yānti
attain
प्राप्त होते हैं
tam
that
उस
kālam
time
काल को
vakṣyāmi
I shall describe
कहूँगा
bharata-ṛṣabha
Arjun, the best of the Bharatas
हे भरतश्रेष्ठ!

Translation

Save

Now I will tell you, O chief of the Bharatas, the times of departure at which the Yogis will return or not return.

— Swami Sivananda

हे भरतवंशियोंमें श्रेष्ठ अर्जुन ! जिस काल अर्थात् मार्गमें शरीर छोड़कर गये हुए योगी अनावृत्तिको प्राप्त होते हैं अर्थात् पीछे लौटकर नहीं आते और (जिस मार्गमें गये हुए) आवृत्तिको प्राप्त होते हैं अर्थात् पीछे लौटकर आते हैं, उस कालको अर्थात् दोनों मार्गोंको मैं कहूँगा।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

-- यत्र काले प्रयाताः इति व्यवहितेन संबन्धः। यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव। योगिनः इति योगिनः कर्मिणश्च उच्यन्ते कर्मिणस्तु गुणतः -- कर्मयोगेन योगिनाम् (गीता 3।3) इति विशेषणात् -- योगिनः। यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति यत्र काले च प्रयाताः आवृत्तिं यान्ति तं कालं वक्ष्यामि भरतर्षभ।।तं कालमाह --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

अत्र कालशब्दो मार्गस्य अहःप्रभृतिसंवत्सरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः यस्मिन् मार्गे प्रयाता योगिनो अनावृत्तिं पुण्यकर्माणः च आवृत्तिं यान्ति तं मार्गं वक्ष्यामि इत्यर्थः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

यत्कालाद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह -- यत्रेत्यादिना। काल इत्युपलक्षणं अग्न्यादेरपि वक्ष्यमाणत्वात्।

— Madhvācārya

Verse 23 of 28 · Chapter 8