New to the Gītā? Start here — a ninety-second orientation.

Chapter 8 · Verse 17

Akṣara-brahma-yogaḥ · अक्षरब्रह्मयोगः

Scroll ↓

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः⁠।।⁠8.17⁠।।

sahasrayugaparyantamaharyadbrahmaṇo viduḥ rātriṁ yugasahasrāntāṁ te'horātravido janāḥ

Word by word
sahasra
one thousand
हजार
yuga
age
युगों
paryantam
until
तक का
ahaḥ
one day
दिन
yat
which
जो
brahmaṇaḥ
of Brahma
ब्रह्मा का
viduḥ
know
जानते हैं
rātrim
night
रात्रि को
yuga-sahasra-antām
lasts one thousand yugas
हजार युगों तक की
te
they
वे
ahaḥ-rātra-vidaḥ
those who know his day and night
दिन-रात के जाननेवाले
janāḥ
people
मनुष्य

Translation

Save

Those who know the day of Brahma, which lasts a thousand Yugas, and the night, which also lasts a thousand Yugas, know day and night.

— Swami Sivananda

जो मनुष्य ब्रह्माके एक हज़ार चतुर्युगीवाले एक दिनको और सहस्त्र चतुर्युगीपर्यन्त एक रातको जानते हैं, वे मनुष्य ब्रह्माके दिन और रातको जाननेवाले हैं।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य अह्नः तत् अहः सहस्रयुगपर्यन्तम् ब्रह्मणः प्रजापतेः विराजः विदुः रात्रिम् अपि युगसहस्रान्तां अहःपरिमाणामेव। के विदुरित्याह -- ते अहोरात्रविदः कालसंख्याविदो जनाः इत्यर्थः। यतः एवं कालपरिच्छिन्नाः ते अतः पुनरावर्तिनो लोकाः।।प्रजापतेः अहनि यत् भवति रात्रौ च तत् उच्यते --

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

ये मनुष्यादिचतुर्मुखान्तानां मत्संकल्पकृताहोरात्रव्यवस्थाविदो जनाः ते ब्रह्मणः चतुर्मुखस्य यत् अहः चतुर्युगसहस्रावसानं विदुः रात्रिं च तथारूपाम्।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

।।8.17 -- 8.19।।मां प्राप्य न पुनरावृत्तिरिति स्थापयितुं अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ब्रह्मपरम्। सा विश्वरूपस्य रजनी इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः।अव्यक्ताद्व्यक्तयः सर्वाः [8।18] इत्युक्तेः। उक्तं च महाकौर्मेअनेकयुगपर्यन्तं महाविष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते इति च।यः स सर्वेषु भूतेषु [8।20] इति वाक्यशेषाच्च।

— Madhvācārya

Verse 17 of 28 · Chapter 8