New to the Gītā? Start here — a ninety-second orientation.

Chapter 6 · Verse 46

Dhyāna-yogaḥ · ध्यानयोगः

Scroll ↓

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन⁠।।⁠6.46⁠।।

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ karmibhyaścādhiko yogī tasmādyogī bhavārjuna

Word by word
tapasvibhyaḥ
than the ascetics
तपस्वियों से
adhikaḥ
superior
श्रेष्ठ
yogī
a yogi
योगी
jñānibhyaḥ
than the persons of learning
ज्ञानियों से
api
even
भी
mataḥ
considered
माना गया है
adhikaḥ
superior
श्रेष्ठ
karmibhyaḥ
than the ritualistic performers
कर्मियों से
ca
and
और
adhikaḥ
superior
श्रेष्ठ
yogī
a yogi
योगी
tasmāt
therefore
इसलिये
yogī
a yogi
योगी
bhava
just become
हो जा
arjuna
Arjun
हे अर्जुन!

Translation

Save

The yogi is thought to be superior to the ascetics, even superior to those who have knowledge obtained through the study of scriptures; he is also superior to men of action; therefore, be thou a yogi, O Arjuna.

— Swami Sivananda

(सकामभाववाले) तपस्वियोंसे भी योगी श्रेष्ठ है, ज्ञानियोंसे भी योगी श्रेष्ठ है और कर्मियोंसे भी योगी श्रेष्ठ है -- ऐसा मेरा मत है। अतः हे अर्जुन ! तू योगी हो जा।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

तपस्विभ्यः अधिकः योगी ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रार्थपाण्डित्यम् तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इति। कर्मिभ्यः अग्निहोत्रादि कर्म तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

केवलतपोभिः यः पुरुषार्थः साध्यते आत्मज्ञानव्यतिरिक्तैः ज्ञानैः च यः यः च केवलैः अश्वमेधादिभिः कर्मभिः तेभ्यः सर्वेभ्यः अधिकपुरुषार्थसाधनत्वात् योगस्य तपस्विभ्यः ज्ञानिभ्यः कर्मिभ्यश्च अधिको योगी तस्माद् योगी भव अर्जुन।तद् एवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनम् उक्तम्। अथ परविद्यां प्रस्तौति

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

ज्ञानिभ्यो योगज्ञानिभ्यः। तपस्विभ्यः कृच्छ्रादिचारिभ्यः। उक्तं च कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते। तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः। ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम् इति गारुडे।अज्ञात्वा ध्यायिनो ध्यानाज्ज्ञानमेव विशिष्यते। ज्ञात्वा ध्यानं ज्ञानमात्राद्ध्यानादपि तु दर्शनम्। दर्शनादपि भक्तेश्च न किञ्चित्साधनाधिकम् इति च नारदीये।

— Madhvācārya

Verse 46 of 47 · Chapter 6