Anandoham Health

Chapter 6 · Verse 14

Dhyāna-yogaḥ · ध्यानयोगः

Scroll ↓

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः⁠।।⁠6.14⁠।।

praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ manaḥ saṁyamya maccitto yukta āsīta matparaḥ

Word by word
praśānta
serene
ātmā
mind
vigata-bhīḥ
fearless
brahmacāri-vrate
in the vow of celibacy
sthitaḥ
situated
manaḥ
mind
sanyamya
having controlled
mat-cittaḥ
meditate on me (Shree Krishna)
yuktaḥ
engaged
āsīta
should sit
mat-paraḥ
having me as the supreme goal

Translation

Serene-minded, fearless, firm in the vow of a Brahmachari, having controlled their mind, thinking of Me and balanced in mind, let them sit, having Me as their supreme goal.

— Swami Sivananda

जिसका अन्तःकरण शान्त है, जो भय-रहित है और जो ब्रह्मचारिव्रतमें स्थित है, ऐसा सावधान योगी मनका संयम करके मेरेमें चित्त लगाता हुआ मेरे परायण होकर बैठे।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

The Śaṅkara Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा विगतभीः विगतभयः ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभुक्त्यादि तस्मिन् स्थितः तदनुष्ठाता भवेदित्यर्थः। किञ्च मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत् मच्चित्तः मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः युक्तः समाहितः सन् आसीत उपविशेत्। मत्परः अहं परो यस्य सोऽयं मत्परो भवति। कश्चित् रागी स्त्रीचित्तः न तु स्त्रियमेव परत्वेन गृह्णाति किं तर्हि राजानं महादेवं वा। अयं तु मच्चित्तो मत्परश्च।।अथेदानीं योगफलमुच्यते

— Śaṅkarācārya

मूलम् / Sanskrit

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

The Rāmānuja Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

कायशिरोग्रीवं समम् अचलं सापाश्रयतया स्थिरं धारयन् दिशश्च अनवलोकयन् स्वं नासिकाग्रं संप्रेक्ष्य प्रशान्तात्मा अत्यन्तनिर्वृतमनाः विगतभीः ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तः अवहितो मत्पर आसीत माम् एव चिन्तयन् आसीत।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

The Madhva Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

।।6.12 6.14।।योगं समाधियोगं युञ्ज्यात्।

— Madhvācārya

मूलम् / Sanskrit

।।6.12 6.14।।योगं समाधियोगं युञ्ज्यात्।

— Madhvācārya

Verse 14 of 47 · Chapter 6