New to the Gītā? Start here — a ninety-second orientation.

Chapter 5 · Verse 1

Karma-sannyāsa-yogaḥ · कर्मसंन्यासयोगः

Scroll ↓

अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्⁠।।⁠5.1⁠।।

arjuna uvāca saṁnyāsaṁ karmaṇāṁ kṛṣṇa punaryogaṁ ca śaṁsasi yacchreya etayorekaṁ tanme brūhi suniścitam

Word by word
arjunaḥ uvāca
Arjun said
अर्जुन ने कहा
sanyāsam
renunciation
संन्यास की
karmaṇām
of actions
कर्मों के
kṛṣṇa
Shree Krishna
हे कृष्ण!
punaḥ
again
फिर
yogam
about karm yog
कर्मयोग की
ca
also
भी
śansasi
you praise
प्रशंसा करते हैं
yat
which
जो
śreyaḥ
more beneficial
कल्याणकारक
etayoḥ
of the two
इन दोनों में
ekam
one
एक
tat
that
उसको
me
unto me
मेरे लिये
brūhi
please tell
कहिये
su-niścitam
conclusively
निश्चित करके

Translation

Save

Arjuna said, "O Krishna, you praise renunciation of actions and also yoga. Please tell me conclusively which is better of the two."

— Swami Sivananda

अर्जुन बोले -- हे कृष्ण ! आप कर्मोंका स्वरूपसे त्याग करनेकी और फिर कर्मयोगकी प्रशंसा करते हैं। अतः इन दोनों साधनोंमें जो एक निश्चितरूपसे कल्याणकारक हो, उसको मेरे लिये कहिये।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत्। पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यंत्वं शंससि। अतः मे कतरत् श्रेयः इति संशयः किं कर्मानुष्ठानं श्रेयः किं वा तद्धानम् इति। प्रशस्यतरं च अनुष्ठेयम्। अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात् श्रेयोऽवाप्तिः मम स्यादिति मन्यसे तत् एकम् अन्यतरत् सह एकपुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति।।स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

अर्जुन उवाच कर्मणां सन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि। एतद् उक्तं भवति द्वितीये अध्यायेमुमुक्षोः प्रथमं कर्मयोग एव कार्यः कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेन आत्मदर्शनं कार्यम् इति प्रतिपाद्य पुनः तृतीयचतुर्थयोःज्ञानयोगाधिकारदशाम् आपन्नस्य अपि कर्मनिष्ठा एव ज्यायसी सा एव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्त्येकसाधनम् इति कर्मनिष्ठां प्रशंससि इति। तत्र एतयोः ज्ञानयोगकर्मयोगयोः आत्मप्राप्तिसाधनभावे यद् एकं सौकर्यात् शैघ्र्यात् च श्रेयः श्रेष्ठम् इति सुनिश्चितम् तत् मे ब्रूहि।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेनयदृच्छालाभसन्तुष्टः 4।22 इत्यादिसन्न्यासंकुरु कर्मैव 4।15 इत्यादि कर्मयोगं च। नियमनादिना सकललोककर्षणात्कृष्णः। तच्चोक्तम् यतः कर्षसि देवेश नियम्य सकलं जगत्। अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः इति महाकौर्मे। सन्न्यासशब्दार्थं भगवानेव वक्ष्यति। अयं प्रश्नाशयः यदि सन्न्यासः श्रेयोऽधिकः स्यात् तर्हि सन्न्यासस्येषद्विरोधि युद्धमिति।

— Madhvācārya

Verse 1 of 29 · Chapter 5