Anandoham Health

Chapter 2 · Verse 64

Sāṅkhya-yogaḥ · सांख्ययोगः

Scroll ↓

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति⁠।।⁠2.64⁠।।

rāgadveṣaviyuktaistu viṣayānindriyaiścaran ātmavaśyairvidheyātmā prasādamadhigacchati

Word by word
rāga
attachment
dveṣa
aversion
viyuktaiḥ
free
tu
but
viṣayān
objects of the senses
indriyaiḥ
by the senses
caran
while using
ātma-vaśyaiḥ
controlling one’s mind
vidheya-ātmā
one who controls the mind
prasādam
the Grace of God
adhigacchati
attains

Translation

But the self-controlled man, moving among objects with the senses restrained and free from attraction and repulsion, attains peace.

— Swami Sivananda

।।2.64 -- 2.65।। वशीभूत अन्तःकरणवाला कर्मयोगी साधक रागद्वेषसे रहित अपने वशमें की हुई इन्द्रियोंके द्वारा विषयोंका सेवन करता हुआ अन्तःकरणकी निर्मलता को प्राप्त हो जाता है। निर्मलता प्राप्त होनेपर साधकके सम्पूर्ण दुःखोंका नाश हो जाता है और ऐसे शुद्ध चित्तवाले साधककी बुद्धि निःसन्देह बहुत जल्दी परमात्मामें स्थिर हो जाती है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

The Śaṅkara Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान् चरन् उपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः विधेयात्मा इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः अयं प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम्।।प्रसादे सति किं स्यात् इत्युच्यते

— Śaṅkarācārya

मूलम् / Sanskrit

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

The Rāmānuja Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसः शुभाश्रयभूते न्यस्तमना निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः विषयान् चरन् विषयान् तिरस्कृत्य वर्तमानो विधेयात्मा विधेयमनाः प्रसादम् अधिगच्छति। निर्मलान्तःकरणो भवति इत्यर्थः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

The Madhva Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् विषयाननुभवन्नपि विधेय आत्मा यस्य सः जितात्मेत्यर्थः। प्रसादं मनःप्रसादम्।

— Madhvācārya

मूलम् / Sanskrit

इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् विषयाननुभवन्नपि विधेय आत्मा यस्य सः जितात्मेत्यर्थः। प्रसादं मनःप्रसादम्।

— Madhvācārya

Verse 64 of 72 · Chapter 2