New to the Gītā? Start here — a ninety-second orientation.

Chapter 18 · Verse 43

Mokṣa-sannyāsa-yogaḥ · मोक्षसंन्यासयोगः

Scroll ↓

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्⁠।।⁠18.43⁠।।

śauryaṁ tejo dhṛtirdākṣyaṁ yuddhe cāpyapalāyanam dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam

Word by word
śauryam
valor
शूरवीरता
tejaḥ
strength
तेज
dhṛtiḥ
fortitude
धृति
dākṣyam yuddhe
skill in weaponry
युद्ध में दक्षता
ca
and
और
api
also
भी
apalāyanam
not fleeing
न भागना
dānam
large-heartedness
दान
īśvara
leadership
स्वामिभाव
bhāvaḥ
qualities
भाव
ca
and
और
kṣātram
of the warrior and administrative class
क्षत्रिय का
karma
work
कर्म
svabhāva-jam
born of one’s intrinsic qualities
स्वभाव से उत्पन्न

Translation

Save

Prowess, splendor, firmness, dexterity, and not fleeing from battle, generosity, and lordliness are the duties of the Kshatriyas, born of their own nature.

— Swami Sivananda

शूरवीरता, तेज, धैर्य, प्रजाके संचालन आदिकी विशेष चतुरता, युद्धमें कभी पीठ न दिखाना, दान करना और शासन करनेका भाव -- ये सबकेसब क्षत्रियके स्वाभाविक कर्म हैं।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,शौर्यं शूरस्य भावः? तेजः प्रागल्भ्यम्? धृतिः धारणम्? सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य? दाक्ष्यं दक्षस्य भावः? सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः? युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः? दानं देयद्रव्येषु मुक्तहस्तता? ईश्वरभावश्च ईश्वरस्य भावः? प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति? क्षात्रं कर्म क्षत्रियजातेः विहितं कर्म क्षात्रं कर्म स्वभावजम्।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

शौर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्। तेजः परैः अनभिभवनीयता। धृतिः आरब्धे कर्मणि विघ्नोपनिपाते अपि तत्समापनसामर्थ्यम्। दाक्ष्यं सर्वक्रियानिवृत्तिसामर्थ्यम्। युद्धे च अपि अपलायनं युद्धे च आत्ममरणनिश्चये अपि अनिवर्तनम् दानम् आत्मीयस्य द्रव्यस्य परस्वत्वापादानपर्यन्तः त्यागः? ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्? एतत् क्षत्रियस्य स्वभावजं कर्म।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

Verse 43 of 78 · Chapter 18