New to the Gītā? Start here — a ninety-second orientation.

Chapter 18 · Verse 20

Mokṣa-sannyāsa-yogaḥ · मोक्षसंन्यासयोगः

Scroll ↓

सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्⁠।।⁠18.20⁠।।

sarvabhūteṣu yenaikaṁ bhāvamavyayamīkṣate avibhaktaṁ vibhakteṣu tajjñānaṁ viddhi sāttvikam

Word by word
sarva-bhūteṣu
within all living beings
सम्पूर्ण प्राणियों में
yena
by which
जिससे
ekam
one
एक
bhāvam
nature
भाव को
avyayam
imperishable
अविनाशी
īkṣate
one sees
देखता है
avibhaktam
undivided
विभागरहित
vibhakteṣu
in diversity
विभक्त में
tat
that
उस
jñānam
knowledge
ज्ञान को
viddhi
understand
जान
sāttvikam
in the mode of goodness
सात्त्विक

Translation

Save

That by which one sees the indestructible Reality in all beings, not separate in any of them—know that knowledge to be Sattvic.

— Swami Sivananda

जिस ज्ञानके द्वारा साधक सम्पूर्ण विभक्त प्राणियोंमें विभागरहित एक अविनाशी भाव-(सत्ता-) को देखता है, उस ज्ञानको तुम सात्त्विक समझो।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन एकं भावं वस्तु -- भावशब्दः वस्तुवाची? एकम् आत्मवस्तु इत्यर्थः अव्ययं न व्येति स्वात्मना स्वधर्मेण वा? कूटस्थम् इत्यर्थः ईक्षते पश्यति येन झानेन? तं च भावम् अविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तं तत् आत्मवस्तु? व्योमवत् निरन्तरमित्यर्थः तत् ज्ञानं साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकं विद्धि इति।।यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति --,

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेन एकाकारम् आत्माख्यं भावं तत्र अपि अविभक्तं ब्राह्मणत्वाद्यनेकाकारेषु अपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानैकाकारं आत्मानं विभागरहितम्। अव्ययं व्ययस्वभावेषु अपि ब्राह्मणादिशरीरेषु अव्ययम् अविकृतं फलादिसङ्गानर्हं च कर्माधिकारखेलायाम् ईक्षते? तत् ज्ञानं सात्त्विकं विद्धि।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

एकं भावं विष्णुम्।

— Madhvācārya

मूलम् / Sanskrit original

एकं भावं विष्णुम्।

— Madhvācārya

एकं भावं विष्णुम्।

— Madhvācārya

Verse 20 of 78 · Chapter 18