Chapter 18 · Verse 10
Mokṣa-sannyāsa-yogaḥ · मोक्षसंन्यासयोगः
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः।।18.10।।
na dveṣṭyakuśalaṁ karma kuśale nānuṣajjate tyāgī sattvasamāviṣṭo medhāvī chinnasaṁśayaḥ
Advaita — ŚaṅkaraŚaṅkara Bhāṣya
The Śaṅkara Bhāṣya text hasn't been added yet.
हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.
--,न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म? शरीरारम्भद्वारेण संसारकारणम्? किमनेन इत्येवम्। कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन मोक्षकारणम् इदम् इत्येवं न अनुषज्जते अनुषङ्गं प्रीतिं न करोति इत्येतत्। कः पुनः असौ त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी? यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी। कदा पुनः असौ अकुशलं कर्म न द्वेष्टि? कुशले च न अनुषज्जते इति? उच्यते -- सत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः? संयुक्त इत्येतत्। अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी। मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य आत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम्? न अन्यत् किञ्चित् इत्येवं निश्चयेन च्छिन्नसंशयः।।यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन संबुद्धः? सः सर्वकर्माणि मनसा संन्यस्य (गीता 5।13) नैव कुर्वन् न कारयन् आसीनः नैष्कर्म्यलक्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत्। पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम्।।यः पुनः अधिकृतः सन् देहात्माभिमानित्वेन देहभृत् अज्ञः अबाधितात्मकर्तृत्वविज्ञानतया अहं कर्ता इति निश्चितबुद्धिः तस्य अशेषकर्मपरित्यागस्य अशक्यत्वात् कर्मफलत्यागेन चोदितकर्मानुष्ठाने एव अधिकारः? न तत्त्यागे इति एतम्? अर्थं दर्शयितुम् आह --,
— Śaṅkarācārya
मूलम् / Sanskrit

Viśiṣṭādvaita — RāmānujaRāmānuja Bhāṣya
The Rāmānuja Bhāṣya text hasn't been added yet.
हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.
एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः तत एव छिन्नसंशयः कर्मणि सङ्गफलकर्तृत्वत्यागी न द्वेष्टि अकुशलं कर्म कुशले च कर्मणि न अनुषज्जते।अकुशलं कर्म अनिष्टफलम्? कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नादिफलम् सर्वस्मिन् कर्मणि ममतारहितत्वात् त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्? त्यक्तकर्तृत्वात् च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति। अनिष्टफलं पापं कर्म अत्र प्रामादिकम् अभिप्रेतम्?नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्।। (कठ0 उ0 1।2।24) इति दुश्चरिताविरतेः ज्ञानोत्पत्तिविरोधित्वश्रवणात्।अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयः त्यागः न कर्मस्वरूपत्यागः।तद् आह --
— Rāmānujācārya

Dvaita — MadhvaMadhva Bhāṣya
The Madhva Bhāṣya text hasn't been added yet.
हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.
Sri Madhvacharya did not comment on this sloka.
— Madhvācārya
मूलम् / Sanskrit
Sri Madhvacharya did not comment on this sloka.
— Madhvācārya
Verse 10 of 78 · Chapter 18