Anandoham Health

Chapter 16 · Continuous reading

दैवासुरसम्पद्विभागयोगः

Daivāsura-sampad-vibhāga-yogaḥ

Read the ślokas straight through, or the meanings — in English, हिन्दी, or the Sanskrit bhāṣya. Tap a verse number for the full study view.

Study view ↗

This bhāṣya's translation hasn't been added yet — showing the ślokas meanwhile.

16.1

श्री भगवानुवाच अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्⁠।।⁠16.1⁠।।

The Blessed Lord said: Fearlessness, purity of heart, steadfastness in knowledge and yoga, almsgiving, control of the senses, sacrifice, study of scriptures, austerity, and straightforwardness.

— Swami Sivananda

श्रीभगवान् बोले -- भयका सर्वथा अभाव; अन्तःकरणकी शुद्धि; ज्ञानके लिये योगमें दृढ़ स्थिति; सात्त्विक दान; इन्द्रियोंका दमन; यज्ञ; स्वाध्याय; कर्तव्य-पालनके लिये कष्ट सहना; शरीर-मन-वाणीकी सरलता।

— Swami Ramsukhdas (Gita Press)

--,अभयम् अभीरुता। सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनं शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः।।ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रतः आचार्यतश्च आत्मादिपदार्थानाम् अवगमः? अवगतानाम् इन्द्रियाद्युपसंहारेण एकाग्रतया स्वात्मसंवेद्यतापादनं योगः? तयोः ज्ञानयोगयोः व्यवस्थितिः व्यवस्थानं तन्निष्ठता। एषा प्रधाना दैवी सात्त्विकी संपत्। यत्र येषाम् अधिकृतानां या प्रकृतिः संभवति? सात्त्विकी सा उच्यते। दानं यथाशक्ति संविभागः अन्नादीनाम्। दमश्च बाह्यकरणानाम् उपशमः अन्तःकरणस्य उपशमं शान्तिं वक्ष्यति। यज्ञश्च श्रौतः अग्निहोत्रादिः। स्मार्तश्च देवयज्ञादिः? स्वाध्यायः ऋग्वेदाद्यध्ययनम् अदृष्टार्थम्। तपः वक्ष्यमाणं शारीरादि। आर्जवम् ऋजुत्वं सर्वदा।।किं च --,

— Śaṅkarācārya

श्रीभगवानुवाच -- इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्? तन्निवृत्तिः अभयम्।सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य रजस्तमोभ्याम् असंस्पृष्टत्वम्।ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा।दानं न्यायार्जितधनस्य पात्रे प्रतिपादनम्।दमः मनसो विषयौन्मुखनिवृत्तिसंशीलनम्।यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम्।स्वाध्यायः सविभूतेः भगवतः तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेदः? इति अनुसंधाय वेदाभ्यासनिष्ठा।तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेः भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम्।आर्जवम् मनोवाक्कायकर्मवृत्तीनाम् एकनिष्ठा परेषु।

— Rāmānujācārya

साधनविघ्नहर्त्रे नमः। पुमर्थसाधनविरोधीत्यनेनाध्यायेन दर्शयति -- तपो ब्रह्मचर्यादि।ब्रह्मचर्यादिकं तपः इति ह्यभिधानम्।

— Madhvācārya

16.2

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्⁠।।⁠16.2⁠।।

Harmlessness, truth, absence of anger, renunciation, peacefulness, absence of crookedness, compassion for beings, non-covetousness, gentleness, modesty, and absence of fickleness.

— Swami Sivananda

अहिंसा, सत्यभाषण; क्रोध न करना; संसारकी कामनाका त्याग; अन्तःकरणमें राग-द्वेषजनित हलचलका न होना; चुगली न करना; प्राणियोंपर दया करना सांसारिक विषयोंमें न ललचाना; अन्तःकरणकी कोमलता; अकर्तव्य करनेमें लज्जा; चपलताका अभाव।

— Swami Ramsukhdas (Gita Press)

--,अहिंसा अहिंसनं प्राणिनां पीडावर्जनम्। सत्यम् अप्रियानृतवर्जितं यथाभूतार्थवचनम्। अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम्। त्यागः संन्यासः? पूर्वं दानस्य उक्तत्वात्। शान्तिः अन्तःकरणस्य उपशमः। अपैशुनं अपिशुनता परस्मै पररन्ध्रप्रकटीकरणं पैशुनम्? तदभावः अपैशुनम्। दया कृपा भूतेषु दुःखितेषु। अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया। मार्दवं मृदुता अक्रौर्यम्। ह्रीः लज्जा। अचापलम् असति प्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम्।।किं च --,

— Śaṅkarācārya

अहिंसा परपीडावर्जनम्।सत्यं यथादृष्टार्थगोचरभूतहितवाक्यम्।अक्रोधः परपीडाफलचित्तविकाररहितत्वम्।त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम्।शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम्।अपैशुनं परानर्थकवाक्यनिवेदनाकरणम्।दया भूतेषु सर्वेषु दुःखासहिष्णुत्वम्।अलोलुप्त्वम्? अलोलुपत्वम्? अलोलुत्वम् इति वा पाठः। विषयेषु निःस्पृहत्वम् इत्यर्थः।मार्दवम् अकाठिन्यम् साधुजनसंश्लेषार्हता इत्यर्थः।ह्रीः अकार्यकरणे व्रीडा।अचापलं स्पृहणीयविषयसन्निधौ अचपलत्वम्।

— Rāmānujācārya

पैशुनं परोपद्रवनिमित्तदोषाणां राजादेः कथनम्।परोपद्रवहेतूनां दोषाणां पेशुनं वचः। राजादेस्तु मदाद्भीतेरदृष्टिर्दर्प उच्यते इत्यभिधानात्। लौल्यं रागःरागो लौल्यं तथा रक्तिः इत्यभिधानात्। अचापलं स्थैर्यम्।चपलश्चञ्चलोऽस्थिरः इत्यभिधानात्।

— Madhvācārya

16.3

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत⁠।।⁠16.3⁠।।

Vigor, forgiveness, fortitude, purity, absence of hatred, absence of pride—these belong to one born for a divine state, O Arjuna.

— Swami Sivananda

तेज (प्रभाव), क्षमा, धैर्य, शरीरकी शुद्धि, वैरभावका न रहना और मानको न चाहना, हे भरतवंशी अर्जुन ! ये सभी दैवी सम्पदाको प्राप्त हुए मनुष्यके लक्षण हैं।

— Swami Ramsukhdas (Gita Press)

--,तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः। क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः? उत्पन्नायां विक्रियायाम् उपशमन् अक्रोधः इति अवोचाम। इत्थं क्षमायाः अक्रोधस्य च विशेषः। धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः? येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति। शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः एवं द्विविधं शौचम्। अद्रोहः परजिघांसाभावः अहिंसनम्। नातिमानिता अत्यर्थं मानः अतिमानः? सः यस्य विद्यते सः अतिमानी? तद्भावः अतिमानिता? तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः। भवन्ति अभयादीनि एतदन्तानि संपदं अभिजातस्य। किं विशिष्टां संपदम् दैवीं देवानां या संपत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः? हे भारत।।अथ इदानीं आसुरी संपत् उच्यते --,

— Śaṅkarācārya

तेजः दुर्जनैः अनभिभवनीयत्वम्।क्षमा परनिमित्तपीडानुभवे अपि परेषुं तं प्रति चित्तविकाररहितता।धृतिः महत्याम् अपि आपदि कृत्यकर्तव्यतावधारणम्।शौचं बाह्यान्तःकरणानां कृत्ययोग्यता शास्त्रीया।अद्रोहः परेषु अनुपरोधः परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वम् इत्यर्थः।नातिमानिता अस्थाने गर्वः अतिमानित्वम्? तद्रहितता।एते गुणा दैवीं संपदम् अभिजातस्य भवन्ति। देवसम्बन्धिनी संपत् दैवी देवा भगवदाज्ञानुवृत्तिशीलाः? तेषां संपत्। सा च भगवदाज्ञानुवृत्तिः एव? ताम अभिजातस्य ताम् अभिमुखीकृतस्य जातस्य तां निर्वर्तयितुं जातस्य भवन्ति इत्यर्थः।

— Rāmānujācārya

क्षमा तु क्रोधाभावेन सहापकर्तुरनपकारः।अक्रोधदोषकृच्छत्रोः क्षमावान्स निगद्यते इत्यभिधानात्।

— Madhvācārya

16.4

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्⁠।।⁠16.4⁠।।

Hypocrisy, arrogance, and self-conceit, anger, harshness, and ignorance—these belong to one who is born for a demoniacal state, O Partha.

— Swami Sivananda

हे पृथानन्दन ! दम्भ करना, घमण्ड करना, अभिमान करना, क्रोध करना, कठोरता रखना और अविवेकका होना भी -- ये सभी आसुरीसम्पदाको प्राप्त हुए मनुष्यके लक्षण हैं।

— Swami Ramsukhdas (Gita Press)

--,दम्भः धर्मध्वजित्वम्। दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकः। अतिमानः पूर्वोक्तः। क्रोधश्च। पारुष्यमेव च परुषवचनम् -- यथा काणम् चक्षुष्मान् विरूपम् रूपवान् हीनाभिजनम् उत्तमाभिजनः इत्यादि। अज्ञानं च अविवेकज्ञानं कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययः। अभिजातस्य पार्थ। किम् अभिजातस्येति? आह -- संपदम् आसुरीम् असुराणां संपत् आसुरी ताम् अभिजातस्य इत्यर्थः।।अनयोः संपदोः कार्यम् उच्यते --,

— Śaṅkarācārya

दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम्। दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः।,अतिमानः च स्वविद्याभिजनाननुगुणोऽभिमानः। क्रोधः परपीडाफलचित्तविकारः। पारुष्यं साधूनाम् उद्वेगकरः स्वभावः। अज्ञानं परावरतत्त्वकृत्याकृत्याविवेकः। एते स्वभावाः आसुरीं संपदम् अभिजातस्य भवन्ति। असुरा भगवदाज्ञातिवृत्तिशीलाः।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.

— Madhvācārya

16.5

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव⁠।।⁠16.5⁠।।

The divine nature is deemed conducive to liberation, and the demonic to bondage. Grieve not, O Arjuna, for you are born with divine endowments.

— Swami Sivananda

दैवी-सम्पत्ति मुक्तिके लिये और आसुरी-सम्पत्ति बन्धनके लिये है। हे पाण्डव तुम दैवी-सम्पत्तिको प्राप्त हुए हो, इसलिये तुम्हें शोक (चिन्ता) नहीं करना चाहिये।

— Swami Ramsukhdas (Gita Press)

--,दैवी संपत् या? सा विमोक्षाय संसारबन्धनात्। निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी संपत् मता अभिप्रेता। तथा,राक्षसी च। तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावम् किम् अहम् आसुरसंपद्युक्तः किं वा दैवसंपद्युक्तः इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् -- मा शुचः शोकं मा कार्षीः। संपदं दैवीम् अभिजातः असि अभिलक्ष्य जातोऽसि? भाविकल्याणः त्वम् असि इत्यर्थः? हे पाण्डव।।

— Śaṅkarācārya

दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धात् मुक्तये भवति क्रमेण मत्प्राप्तये भवति इत्यर्थः।आसुरी मदाज्ञातिवृत्तिरूपा संपद् निबन्धाय भवति? अधोगतिप्राप्तये भवति इत्यर्थः।एतत् श्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीताय अर्जुनाय एवम् आह -- शोकं मा कृथाः त्वं तु दैवीं संपदम् अभिजातः असि। हे पाण्डव धार्मिकाग्रेसरस्य हि पाण्डोः तनयः त्वम् इति अभिप्रायः।

— Rāmānujācārya

दैवीं सम्पदमभिजातः प्रतिजातः।

— Madhvācārya

16.6

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु⁠।।⁠16.6⁠।।

There are two types of beings in this world: the divine and the demoniacal. The divine has been described at length; hear from Me, O Arjuna, about the demoniacal.

— Swami Sivananda

इस लोकमें दो तरहके प्राणियोंकी सृष्टि है -- दैवी और आसुरी। दैवीका तो मैंने विस्तारसे वर्णन कर दिया, अब हे पार्थ ! तुम मेरेसे आसुरीका विस्तार सुनो।

— Swami Ramsukhdas (Gita Press)

-- द्वौ द्विसंख्याकौ भूतसर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूतसर्गौ सृज्येतेति सर्गौ भूतान्येव सृज्यमानानि दैवासुरसंपद्द्वययुक्तानि इति द्वौ भूतसर्गौ इति उच्येते? द्वया ह वै प्राजापत्या देवाश्चासुराश्च (बृह0 उ0 1।3।1) इति श्रुतेः। लोके अस्मिन्? संसारे इत्यर्थः? सर्वेषां द्वैविध्योपपत्तेः। कौ तौ भूतसर्गौ इति? उच्येते -- प्रकृतावेव दैव आसुर एव च। उक्तयोरेव पुनः अनुवादे प्रयोजनम् आह -- दैवः भूतसर्गः अभयं सत्त्वसंशुद्धिः (गीता 16।1) इत्यादिना विस्तरशः विस्तरप्रकारैः प्रोक्तः कथितः? न तु आसुरः विस्तरशः अतः तत्परिवर्जनार्थम् आसुरं पार्थ? मे मम वचनात् उच्यमानं विस्तरशः श्रृणु अवधारय।।आ अध्यायपरिसमाप्तेः आसुरी संपत् प्राणिविशेषणत्वेन प्रदर्श्यते? प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनं कर्तुमिति --,

— Śaṅkarācārya

अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गौ द्वौ द्विविधौ? दैवः च आसुरः च इति। सर्गः उत्पत्तिः? प्राचीनपुण्यपापरूपकर्मवशाद् भगवदाज्ञानुवृत्तितद्विपरीतकरणाय उत्पत्तिकाले एव विभागेन भूतानि उत्पद्यन्ते इत्यर्थः।तत्र दैवः सर्गो विस्तरशः प्रोक्तः। देवानां मदाज्ञानुवर्तिशीलानाम् उत्पत्तिः यदाचारकरणार्था स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः। असुराणां सर्गः च यदाचारकरणार्थः तम् आचारं मे श्रृणु? मम सकाशाच्छृणु।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.7

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते⁠।।⁠16.7⁠।।

The demoniacal do not know what to do and what to refrain from; they have neither purity, nor right conduct, nor truth.

— Swami Sivananda

आसुरी प्रकृतिवाले मनुष्य प्रवृत्ति और निवृत्तिको नहीं जानते और उनमें न बाह्यशुद्धि, न श्रेष्ठ आचरण तथा न सत्य-पालन ही होता है।

— Swami Ramsukhdas (Gita Press)

--,प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः ताम्? निवृत्तिं च एतद्विपरीतां यस्मात् अनर्थहेतोः निवर्तितव्यं सा निवृत्तिः तां च? जनाः आसुराः न विदुः न जानन्ति। न केवलं प्रवृत्तिनिवृत्ती एव ते न विदुः? न शौचं नापि च आचारः न सत्यं तेषु विद्यते अशौचाः अनाचाराः मायाविनः अनृतवादिनो हि आसुराः।।किं च --,

— Śaṅkarācārya

प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति।न च शौचं वैदिककर्मयोग्यत्वं शास्त्रसिद्धम् तद् बाह्यम् आभ्यन्तरं च असुरेषु न विद्यते। न अपि च आचारः? तद् बाह्याभ्यन्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते? स अपि आचारः तेषु न विद्यते। तथा उक्तम् -- सन्ध्याहीनोऽशुचिनित्यमनर्हः सर्वकर्मसु। (दक्षस्मृति 2।23) इति।तथा सत्यं च तेषु न विद्यते सत्यं यथार्थज्ञानं भूतहितरूपभाषणं तेषु न विद्यते।किं च --

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.

— Madhvācārya

16.8

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत्कामहैतुकम्⁠।।⁠16.8⁠।।

They say, "This universe is without truth, without a moral basis, without a God, brought about by mutual union, with lust as its cause; what else?"

— Swami Sivananda

वे कहा करते हैं कि संसार असत्य, अप्रतिष्ठित और बिना ईश्वरके अपने-आप केवल स्त्री-पुरुषके संयोगसे पैदा हुआ है। इसलिये काम ही इसका कारण है, और कोई कारण नहीं है।

— Swami Ramsukhdas (Gita Press)

--,असत्यं यथा वयम् अनृतप्रायाः तथा इदं जगत् सर्वम् असत्यम्? अप्रतिष्ठं च न अस्य धर्माधर्मौ प्रतिष्ठा अतः अप्रतिष्ठं च? इति ते आसुराः जनाः जगत् आहुः? अनीश्वरम् न च धर्माधर्मसव्यपेक्षकः अस्य शासिता ईश्वरः विद्यते इति अतः अनीश्वरं जगत् आहुः। किं च? अपरस्परसंभूतं कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगात् जगत् सर्वं संभूतम्। किमन्यत् कामहैतुकं कामहेतुकमेव कामहैतुकम्। किमन्यत् जगतः कारणम् न किञ्चित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतः काम एव प्राणिनां कारणम् इति लोकायतिकदृष्टिः इयम्।।

— Śaṅkarācārya

असत्यं जगत् एतत् सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकम् इति न आहुः। अप्रतिष्ठं तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति। ब्रह्मणा अनन्तेन धृता हि पृथिवी? सर्वान् लोकान् बिभर्ति। यथोक्तम्तेनेयं नागवर्येण शिरसा विधृता मही। बिभर्ति मालां लोकानां सदेवासुरमानुषाम्।। (वि0 पु0 2।5।27) इति।अनीश्वरं सत्यसंकल्पेन परब्रह्मणा सर्वेश्वरेण मया एतत् नियमितम् इति च न वदन्ति। अहं सर्वस्यं प्रभवो मत्तः सर्वं प्रवर्तते। (गीता 10।8) इति हि उक्तम्।वदन्ति च एवम् अपरस्परसम्भूतं किम् अन्यत् योषित्पुरुषयोः परस्परसम्बन्धेन जातम् इदं मनुष्यपश्वादिकम् उपलभ्यते। अनेवंभूतं किम् अन्यद् उपलभ्यते किञ्चिद् अपि न उपलभ्यते इत्यर्थः। अतः सर्वम् इदं जगत् कामहेतुकम् इति।

— Rāmānujācārya

जगतः सत्यं? प्रतिष्ठा? ईश्वरश्च विष्णुस्तद्वैपरीत्येनाहुः। तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेव सत्यम् [बृ.उ.2।1।20] इति हि श्रुतिः। द्वे वा व ब्रह्मणो रूपे मूर्तं चा(चैवा) मूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च [बृ.उ.2।3।1] इति। तस्योपनिषत्सत्यस्य सत्यम् [बृ.उ.2।1।20मैत्र्यु.6।32] इति एष ह्येवैतत्सादयति यामयति चेति इति प्राचीनशालाश्रुतिः। परस्परसम्भवो ह्युक्तःअन्नाद्भवन्ति भूतानि [3।14] इत्यादिना।

— Madhvācārya

16.9

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः⁠।।⁠16.9⁠।।

Holding this view, these ruined souls of small intellect and fierce deeds come forth as enemies of the world, intent on its destruction.

— Swami Sivananda

उपर्युक्त (नास्तिक) दृष्टिका आश्रय लेनेवाले जो मनुष्य अपने नित्य स्वरूपको नहीं मानते, जिनकी बुद्धि तुच्छ है, जो उग्रकर्मा और संसारके शत्रु हैं, उन मनुष्योंकी सामर्थ्यका उपयोग जगत्का नाश करनेके लिये ही होता है।

— Swami Ramsukhdas (Gita Press)

--,एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानः नष्टस्वभावाः विभ्रष्टपरलोकसाधनाः अल्पबुद्धयः विषयविषया अल्पैव बुद्धिः येषां ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणः हिंसात्मकाः। क्षयाय जगतः प्रभवन्ति इति संबन्धः।।जगतः अहिताः? शत्रवः इत्यर्थः।।ते च --,

— Śaṅkarācārya

एतां दृष्टिम् अवष्टभ्य अवलम्ब्य? नष्टात्मानः? अदृष्टदेहातिरिक्तात्मानः? अल्पबुद्धयः -- घटादिवद् ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मा न उपलभ्यते? इति विवेकाकुशलाः। उग्रकर्माणः सर्वेषां हिंसकाः? जगतः क्षयाय प्रभवन्ति।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.

— Madhvācārya

16.10

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः⁠।।⁠16.10⁠।।

Filled with insatiable desires, full of hypocrisy, pride, and arrogance, holding evil ideas due to delusion, they work with impure intentions.

— Swami Sivananda

कभी पूरी न होनेवाली कामनाओंका आश्रय लेकर दम्भ, अभिमान और मदमें चूर रहनेवाले तथा अपवित्र व्रत धारण करनेवाले मनुष्य मोहके कारण दुराग्रहोंको धारण करके संसारमें विचरते रहते हैं।

— Swami Ramsukhdas (Gita Press)

--,कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक्यपूरणं दम्भमानमदान्विताः दम्भश्च मानश्च मदश्च दम्भमानमदाः तैः अन्विताः दम्भमानमदान्विताः मोहात् अविवेकतः गृहीत्वा उपादाय असद्ग्राहान् अशुभनिश्चयान् प्रवर्तन्ते लोके अशुचिव्रताः अशुचीनि व्रतानि येषां ते अशुचिव्रताः।।किं च --,

— Śaṅkarācārya

दुष्पूरं दुष्प्रापविषयं कामम् आश्रित्य तत्सिषाधयिषया मोहाद् अज्ञानात् असद्ग्राहान् अन्यायगृहीतान् असत्परिग्रहान् गृहीत्वा अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः? दम्भमानमदान्विताः प्रवर्तन्ते।

— Rāmānujācārya

दुष्पूरो हि कामः।पाताल इव दुष्पूरो मां हि क्लेशयते सदा इति मोक्षधर्मे।

— Madhvācārya

16.11

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्िचताः⁠।।⁠16.11⁠।।

Giving themselves over to immeasurable cares that end only with death, regarding the gratification of lust as their highest aim, and feeling sure that that is all.

— Swami Sivananda

वे मृत्युपर्यन्त रहनेवाली अपार चिन्ताओंका आश्रय लेनेवाले, पदार्थोंका संग्रह और उनका भोग करनेमें ही लगे रहनेवाले और 'जो कुछ है, वह इतना ही है' -- ऐसा निश्चय करनेवाले होते हैं।

— Swami Ramsukhdas (Gita Press)

--,चिन्ताम् अपरिमेयां च? न परिमातुं शक्यते यस्याः चिन्तायाः इयत्ता सा अपरिमेया? ताम् अपरिमेयाम्? प्रलयान्तां मरणान्ताम् उपाश्रिताः? सदा चिन्तापराः इत्यर्थः। कामोपभोगपरमाः? काम्यन्ते इति कामाः विषयाः शब्दादयः तदुपभोगपरमाः अयमेव परमः पुरुषार्थः यः कामोपभोगः इत्येवं निश्चितात्मानः? एतावत् इति निश्चिताः।।

— Śaṅkarācārya

अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयां च अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयाम् उपाश्रिताः। तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थः? इति मन्वानाः। एतावद् इति निश्चिताः? इतः अधिकः पुरुषार्थो न विद्यते इति संजातनिश्चयाः।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.12

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्⁠।।⁠16.12⁠।।

Bound by a hundred ties of hope, given over to lust and anger, they strive to obtain hoards of wealth by unlawful means for sensual enjoyment.

— Swami Sivananda

वे आशाकी सैकड़ों फाँसियोंसे बँधे हुए मनुष्य काम-क्रोधके परायण होकर पदार्थोंका भोग करनेके लिये अन्यायपूर्वक धन-संचय करनेकी चेष्टा करते रहते हैं।

— Swami Ramsukhdas (Gita Press)

--,आशापाशशतैः आशा एव पाशाः तच्छतैः बद्धाः नियन्त्रिताः सन्तः सर्वतः आकृष्यमाणाः? कामक्रोधपरायणाः कामक्रोधौ परम्,अयनम् आश्रयः येषां ते कामक्रोधपरायणाः? ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय न धर्मार्थम्? अन्यायेन परस्वापहरणादिना इत्यर्थः किम् अर्थसंचयान् अर्थप्रचयान्।।ईदृशश्च तेषाम् अभिप्रायः --,

— Śaṅkarācārya

आशापाशशतैः आशाख्यपाशशतैः बद्धाः कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः। कामभोगार्थम् अन्यायेन अर्थसंचयान् प्रति ईहन्ते।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.13

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्⁠।।⁠16.13⁠।।

"I have gained this today; I will fulfill this desire of mine; this is mine, and this wealth will be mine in the future."

— Swami Sivananda

इतनी वस्तुएँ तो हमने आज प्राप्त कर लीं और अब इस मनोरथको प्राप्त (पूरा) कर लेंगे।,इतना धन तो हमारे पास है ही, इतना धन फिर हो जायगा।

— Swami Ramsukhdas (Gita Press)

--,इदं द्रव्यं अद्य इदानीं मया लब्धम्। इदं च अन्यत् प्राप्स्ये मनोरथं मनस्तुष्टिकरम्। इदं च अस्ति इदमपि मे भविष्यति आगामिनि संवत्सरे पुनः धनं तेन अहं धनी विख्यातः भविष्यामि इति।।

— Śaṅkarācārya

इदं क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येन एव लब्धम्? न अदृष्टादिना? इमं च मनोरथम् अहम् एव प्राप्स्ये? न अदृष्टादिसहितः इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति? इदम् अपि पुनः मे मत्सामर्थ्येन एव भविष्यति।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.14

असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी⁠।।⁠16.14⁠।।

"I have slain that enemy, and I shall slay others too. I am the Lord; I enjoy, I am perfect, powerful, and happy."

— Swami Sivananda

वह शत्रु तो हमारे द्वारा मारा गया और उन दूसरे शत्रुओंको भी हम मार डालेंगे। हम सर्वसमर्थ हैं। हमारे पास भोग-सामग्री बहुत है। हम सिद्ध हैं। हम बड़े बलवान् और सुखी हैं।

— Swami Ramsukhdas (Gita Press)

--,असौ देवदत्तनामा मया हतः दुर्जयः शत्रुः। हनिष्ये च अपरान् अन्यान् वराकान् अपि। किम् एते करिष्यन्ति तपस्विनः सर्वथापि नास्ति मत्तुल्यः। कथम् ईश्वरः अहम्? अहं भोगी। सर्वप्रकारेण च सिद्धः अहं संपन्नः पुत्रैः नप्तृभिः? न केवलं मानुषः? बलवान् सुखी च अहमेव अन्ये तु भूमिभारायावितीर्णाः।।

— Śaṅkarācārya

असौ मया बलवता हतः शत्रुः। अपरान् अपि शत्रून् अहं शूरो धीरः च हनिष्ये। किमत्र मन्दधीभिः दुर्बलैः परिकल्पितेन अदृष्टादिपरिकरेणतथा च ईश्वरः अहं स्वाधीनः अहम् अन्येषां च अहम् एव नियन्ता। अहं भोगी स्वत एव अहं भोगी? न अदृष्टादिभिः। सिद्धः अहम् -- स्वतः सिद्धः अहम् न कस्माच्चिद् अदृष्टादेः। तथा स्वत एव बलवान् स्वत एव सुखी।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.15

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः⁠।।⁠16.15⁠।।

"I am wealthy and born into a noble family. Who is my equal? I shall perform sacrifices, give charity, and rejoice," thus deluded by ignorance.

— Swami Sivananda

हम धनवान् हैं, बहुत-से मनुष्य हमारे पास हैं, हमारे समान और कौन है? हम खूब यज्ञ करेंगे, दान देंगे और मौज करेंगे -- इस तरह वे अज्ञानसे मोहित रहते हैं।

— Swami Ramsukhdas (Gita Press)

--,आढ्यः धनेन? अभिजनवान् सप्तपुरुषं श्रोत्रियत्वादिसंपन्नः -- तेनापि न मम तुल्यः अस्ति कश्चित्। कः अन्यः अस्ति सदृशः तुल्यः मया किं च? यक्ष्ये यागेनापि अन्यान् अभिभविष्यामि? दास्यामि नटादिभ्यः? मोदिष्ये हर्षं च अतिशयं प्राप्स्यामि? इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः।।

— Śaṅkarācārya

अहं स्वतः च आढ्यः अस्मि? अभिजनवान् अस्मि स्वत एव उत्तमकुले प्रसूतः अस्मि। अस्मिन् लोके मया सदृशः कः अन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते अहं स्वयम् एव यक्ष्ये? दास्यामि? मोदिष्ये इति अज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेन एव यागदानादिकं कर्तुं शक्यम् इति अज्ञानविमोहिता मन्यन्ते।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.16

अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ⁠।।⁠16.16⁠।।

Bewildered by many fancies, entangled in the snare of delusion, addicted to the gratification of lust, they fall into a foul hell.

— Swami Sivananda

कामनाओंके कारण तरह-तरहसे भ्रमित चित्तवाले, मोह-जालमें अच्छी तरहसे फँसे हुए तथा पदार्थों और भोगोंमें अत्यन्त आसक्त रहनेवाले मनुष्य भयङ्कर नरकोंमें गिरते हैं।

— Swami Ramsukhdas (Gita Press)

--,अनेकचित्तविभ्रान्ताः उक्तप्रकारैः अनेकैः चित्तैः विविधं भ्रान्ताः अनेकचित्तविभ्रान्ताः? मोहजालसमावृताः मोहः अविवेकः अज्ञानं तदेव जालमिव आवरणात्मकत्वात्? तेन समावृताः। प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तः तेन उपचितकल्मषाः पतन्ति नरके अशुचौ वैतरण्यादौ।।

— Śaṅkarācārya

अदृष्टेश्वरादिसहकारम् ऋते स्वेन एव सर्वं कर्तुं शक्यम् इति कृत्वा एवं कुर्याम् एतत् च कुर्याम् अन्यत् च कुर्याम् इति अनेकचित्तविभ्रान्ताः -- अनेकचित्ततया विभ्रान्ताः एवंरूपेण मोहजालेन समावृताः कामभोगेषु प्रकर्षेण सक्ताः मध्ये मृताः अशुचौ नरके पतन्ति।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.17

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्⁠।।⁠16.17⁠।।

Self-conceited, stubborn, filled with pride and intoxication of wealth, they perform sacrifices in name only for ostentation, contrary to scriptural ordinances.

— Swami Sivananda

अपनेको सबसे अधिक पूज्य माननेवाले, अकड़ रखनेवाले तथा धन और मानके मदमें चूर रहनेवाले वे मनुष्य दम्भसे अविधिपूर्वक नाममात्रके यज्ञोंसे यजन करते हैं।

— Swami Ramsukhdas (Gita Press)

--,आत्मसंभाविताः सर्वगुणविशिष्टतया आत्मनैव संभाविताः आत्मसंभाविताः? न साधुभिः। स्तब्धाः अप्रणतात्मानः। धनमानमदान्विताः धननिमित्तः मानः मदश्च? ताभ्यां धनमानमदाभ्याम् अन्विताः। यजन्ते नामयज्ञैः नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं विधिविहिताङ्गेतिकर्तव्यतारहितम्।।

— Śaṅkarācārya

आत्मसम्भाविताः आत्मना एव सम्भाविताः आत्मना एव आत्मानं सम्भावयन्ति इत्यर्थः। स्तब्धाः परिपूर्णं मन्यमाना न किञ्चित्कुर्वाणाः? कथम् धनमानमदान्विताः -- धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः नामयज्ञैः नामप्रयोजनैः यष्टा इति नाममात्रप्रयोजनैः यज्ञैः यजन्ते? तत् अपि दम्भेन हेतुना यष्टृत्वख्यापनाय? अविधिपूर्वकम् अयथाचोदनं यजन्ते।ते च ईदृग्भूता यजन्ते इत्याह --

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.

— Madhvācārya

16.18

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः⁠।।⁠16.18⁠।।

Given over to egoism, power, haughtiness, lust, and anger, these malicious people hate Me in their own bodies and in the bodies of others.

— Swami Sivananda

वे अहङ्कार, हठ, घमण्ड, कामना और क्रोधका आश्रय लेनेवाले मनुष्य अपने और दूसरोंके शरीरमें रहनेवाले मुझ अन्तर्यामीके साथ द्वेष करते हैं तथा (मेरे और दूसरोंके गुणोंमें) दोष-दृष्टि रखते हैं।

— Swami Ramsukhdas (Gita Press)

--,अहंकारं अहंकरणम् अहंकारः? विद्यमानैः अविद्यमानैश्च गुणैः आत्मनि अध्यारोपितैः विशिष्टमात्मानमहम् इति मन्यते? सः अहंकारः अविद्याख्यः कष्टतमः? सर्वदोषाणां मूलं सर्वानर्थप्रवृत्तीनां च? तम्। तथा बलं पराभिभवनिमित्तं कामरागान्वितम्। दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः दोषविशेषः। कामं स्त्र्यादिविषयम्। क्रोधम् अनिष्टविषयम्। एतान् अन्यांश्च महतो दोषान् संश्रिताः। किं च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसाक्षिभूतं मां प्रद्विषन्तः? मच्छासनातिवर्तित्वं प्रद्वेषः? तं कुर्वन्तः अभ्यसूयकाः सन्मार्गस्थानां गुणेषु असहमानाः।।

— Śaṅkarācārya

अनन्यापेक्षः अहम् एव सर्वं करोमि इति एवंरूपम् अहङ्कारम् आश्रिताः? तथा सर्वस्य करणे मद्बलम् एव पर्याप्तम् इति च बलम्? अतोमत्सदृशो न कश्चिद् अस्ति इति च दर्पम्?एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यते इति कामम्?मम ये अनिष्टकारिणः तान् सर्वान् हनिष्यामि इति च क्रोधम्? एवम् एतान् संश्रिताः स्वदेहेषु परदेहेषु च अवस्थितं सर्वस्य कारयितारं पुरुषोत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः कुयुक्तिभिः मत्स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः? अहङ्कारादिकान् संश्रिताः? यागादिकं सर्वं क्रियाजातं कुर्वते इत्यर्थः।

— Rāmānujācārya

मामात्मपरदेहेष्विति। न कस्यचिद्विष्णुः कारयिता। यदि स्यान्ममपीदानीं कारयत्वित्यादि ईश्वरो यदि सर्वस्य कारकः कारयीत माम्। अद्येति वादिनं ब्रूयात्सदाऽधो यास्यसि इति सामवेदे यास्कश्रुतिः।

— Madhvācārya

16.19

तानहं द्विषतः क्रूरान्संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु⁠।।⁠16.19⁠।।

Those cruel haters, the worst among men in the world, I hurl those evil-doers into the wombs of demons only.

— Swami Sivananda

उन द्वेष करनेवाले, क्रूर स्वभाववाले और संसारमें महान् नीच, अपवित्र मनुष्योंको मैं बार-बार आसुरी योनियोंमें गिराता ही रहता हूँ।

— Swami Ramsukhdas (Gita Press)

--,तान् अहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणः द्विषतश्च मां क्रूरान् संसारेषु एव अनेकनरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपामि अजस्रं संततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूरकर्मप्रायासु व्याघ्रसिंहादियोनिषु क्षिपामि इत्यनेन संबन्धः।।

— Śaṅkarācārya

य एवं मां द्विषन्ति तान् क्रूरान् नराधमान् अशुभान् अहम् अजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु? तत्र अपि आसुरीषु एव योनिषु क्षिपामि। मदानुकूल्यप्रत्यनीकेषु एव जन्मसु क्षिपामि। तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरासु अहम् एव संयोजयामि इत्यर्थः।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.20

असुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्⁠।।⁠16.20⁠।।

Entering into demoniacal wombs and deluded, birth after birth, they do not attain Me, thus falling, O Arjuna, into a condition still lower than that.

— Swami Sivananda

हे कुन्तीनन्दन ! वे मूढ मनुष्य मेरेको प्राप्त न करके ही जन्म-जन्मान्तरमें आसुरी योनिको प्राप्त होते हैं, फिर उससे भी अधिक अधम गतिमें अर्थात् भयङ्कर नरकोंमें चले जाते हैं।

— Swami Ramsukhdas (Gita Press)

--,आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य एव हे कौन्तेय? ततः तस्मादपि यान्ति अधमां गतिं निकृष्टतमां गतिम्। माम् अप्राप्यैव इति न मत्प्राप्तौ काचिदपि आशङ्का अस्ति? अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्यर्थः।।सर्वस्या आसुर्याः संपदः संक्षेपः अयम् उच्यते? यस्मिन् त्रिविधे सर्वः आसुरीसंपद्भेदः अनन्तोऽपि अन्तर्भवति। यत्परिहारेण परिहृतश्च भवति? यत् मूलं सर्वस्य अनर्थस्य? तत् एतत् उच्यते --,

— Śaṅkarācārya

मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनः अपि जन्मनि जन्मनि मूढा मद्विपरीतज्ञानाः माम् अप्राप्य एव,अस्ति भगवान् वासुदेवः सर्वेश्वरः इति ज्ञानम् अप्राप्य ततः ततो जन्मनः अधमाम् एव गतिं यान्ति।अस्य आसुरस्वभावस्य आत्मनाशस्य मूलहेतुम् आह --

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.21

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्⁠।।⁠16.21⁠।।

There are three gates to this hell, destructive of the self: lust, anger, and greed; therefore, one should abandon these three.

— Swami Sivananda

काम, क्रोध और लोभ -- ये तीन प्रकारके नरकके दरवाजे जीवात्माका पतन करनेवाले हैं, इसलिये इन तीनोंका त्याग कर देना चाहिये।

— Swami Ramsukhdas (Gita Press)

--,त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आत्मनः? यत् द्वारं प्रविशन्नेव नश्यति आत्मा कस्मैचित् पुरुषार्थाय योग्यो न भवति इत्येतत्? अतः उच्यते द्वारं नाशनमात्मनः इति। किं तत् कामः क्रोधः तथा लोभः। तस्मात् एतत् त्रयं त्यजेत्। यतः एतत् द्वारं नाशनम् आत्मनः तस्मात् कामादित्रयमेतत् त्यजेत्।।त्यागस्तुतिरियम् --,

— Śaṅkarācārya

अस्य असुरस्वभावरूपस्य नरकस्य एतत् त्रिविधं द्वारम् तत् च आत्मनो नाशनम् काम क्रोधः लोभ इति। त्रयाणां स्वरूपं पूर्वम् एव व्याख्यातम्। द्वारं मार्गो हेतुः इत्यर्थः। तस्मात् एतत् त्रयं त्यजेत्। तस्माद् अतिघोरनरकहेतुत्वात् कामक्रोधलोभानाम् एतत् त्रितयं दूरतः परित्यजेत्।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.22

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्⁠।।⁠16.22⁠।।

A person who is liberated from these three gates of darkness, O Arjuna, practices what is beneficial for them and thus goes to the Supreme Goal.

— Swami Sivananda

हे कुन्तीनन्दन ! इन नरकके तीनों दरवाजोंसे रहित हुआ जो मनुष्य अपने कल्याणका आचरण करता है, वह परमगतिको प्राप्त हो जाता है।

— Swami Ramsukhdas (Gita Press)

--,एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः? एतैः त्रिभिः विमुक्तः नरः आचरति अनुतिष्ठति। किम् आत्मनः श्रेयः। यत्प्रतिबद्धः पूर्वं न आचचार? तदपगमात् आचरति। ततः तदाचरणात् याति परां गतिं मोक्षमपि इति।।सर्वस्य एतस्य आसुरीसंपत्परिवर्जनस्य श्रेयआचरणस्य च शास्त्रं कारणम्। शास्त्रप्रमाणात् उभयं शक्यं कर्तुम्? न अन्यथा। अतः --,

— Śaṅkarācārya

एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुक्तः नर आत्मनः श्रेय आचरति। लब्धमद्विषयज्ञानो मदानुकूल्ये प्रवर्तते ततो माम् एव परां गतिं याति।शास्त्रानादरः अस्य नरकस्य प्रधानहेतुः इति आह --

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.23

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्⁠।।⁠16.23⁠।।

He who, having cast aside the ordinances of the scriptures, acts under the impulse of desire, does not attain perfection, nor happiness, nor the Supreme Goal.

— Swami Sivananda

जो मनुष्य शास्त्रविधिको छोड़कर अपनी इच्छासे मनमाना आचरण करता है, वह न सिद्धि-(अन्तःकरणकी शुद्धि-) को, न सुखको और न परमगतिको ही प्राप्त होता है।

— Swami Ramsukhdas (Gita Press)

--,यः शास्त्रविधिं शास्त्रं वेदः तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन्? न सः सिद्धिं पुरुषार्थयोग्यताम् अवाप्नोति? न अपि अस्मिन् लोके सुखं न अपि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा।।

— Śaṅkarācārya

शास्त्रं वेदाः विधिः अनुशासनम् वेदाख्यं मदनुशासनम् उत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगणमार्गेण वर्तते? न स सिद्धिम् अवाप्नोति? न काम् अपि आमुष्मिकीं सिद्धिम् अवाप्नोति। न सुखं ऐहिकम् अपि किञ्चिद् अवाप्नोति। न परां गतिम् कुतः परां गतिं प्राप्नोति इत्यर्थः।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.,

— Madhvācārya

16.24

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि⁠।।⁠16.24⁠।।

Therefore, let the scripture be thy authority in determining what ought to be done and what ought not to be done. Having known what is said in the ordinance of the scriptures, thou shouldst act in this world.

— Swami Sivananda

अतः तेरे लिये कर्तव्य-अकर्तव्यकी व्यवस्थामें शास्त्र ही प्रमाण है -- ऐसा जानकर तू इस लोकमें शास्त्र-विधिसे नियत कर्तव्य कर्म करनेयोग्य है।

— Swami Ramsukhdas (Gita Press)

--,तस्मात् शास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम्। अतः ज्ञात्वा बुद्ध्वा शास्त्रविधानोक्तं विधिः विधानं शास्त्रेण विधानं शास्त्रविधानम् कुर्यात्? न कुर्यात् इत्येवंलक्षणम्? तेन उक्तं स्वकर्म यत् तत् कर्तुम् इह अर्हसि? इह इति कर्माधिकारभूमिप्रदर्शनार्थम् इति।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य,श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्येषोडशोऽध्यायः।।

— Śaṅkarācārya

तस्मात् कार्याकार्यव्यवस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रम् एव तव प्रमाणम्। धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदा यद् एव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्म अवबोधयन्ति तत् शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावद् अन्यूनातिरिक्तं विज्ञाय कर्तुं त्वं अर्हसि तद् एव उपादातुम् अर्हसि।

— Rāmānujācārya

Sri Madhvacharya did not comment on this sloka.

— Madhvācārya