New to the Gītā? Start here — a ninety-second orientation.

Chapter 16 · Verse 5

Daivāsura-sampad-vibhāga-yogaḥ · दैवासुरसम्पद्विभागयोगः

Scroll ↓

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव⁠।।⁠16.5⁠।।

daivī sampadvimokṣāya nibandhāyāsurī matā mā śucaḥ sampadaṁ daivīmabhijāto'si pāṇḍava

Word by word
daivī
divine
दैवी
sampat
qualities
सम्पदा
vimokṣāya
toward liberation
मुक्ति के लिये
nibandhāya
to bondage
बन्धन के लिये
āsurī
demoniac qualities
आसुरी
matā
are considered
मानी गयी है
do not
मत
śucaḥ
grieve
शोक कर
sampadam
virtues
सम्पदा को
daivīm
saintly
दैवी
abhijātaḥ
born
लेकर उत्पन्न हुआ
asi
you are
है
pāṇḍava
Arjun, the son of Pandu
हे पाण्डव!

Translation

Save

The divine nature is deemed conducive to liberation, and the demonic to bondage. Grieve not, O Arjuna, for you are born with divine endowments.

— Swami Sivananda

दैवी-सम्पत्ति मुक्तिके लिये और आसुरी-सम्पत्ति बन्धनके लिये है। हे पाण्डव तुम दैवी-सम्पत्तिको प्राप्त हुए हो, इसलिये तुम्हें शोक (चिन्ता) नहीं करना चाहिये।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,दैवी संपत् या? सा विमोक्षाय संसारबन्धनात्। निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी संपत् मता अभिप्रेता। तथा,राक्षसी च। तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावम् किम् अहम् आसुरसंपद्युक्तः किं वा दैवसंपद्युक्तः इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् -- मा शुचः शोकं मा कार्षीः। संपदं दैवीम् अभिजातः असि अभिलक्ष्य जातोऽसि? भाविकल्याणः त्वम् असि इत्यर्थः? हे पाण्डव।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

दैवी मदाज्ञानुवृत्तिरूपा संपद् विमोक्षाय बन्धात् मुक्तये भवति क्रमेण मत्प्राप्तये भवति इत्यर्थः।आसुरी मदाज्ञातिवृत्तिरूपा संपद् निबन्धाय भवति? अधोगतिप्राप्तये भवति इत्यर्थः।एतत् श्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीताय अर्जुनाय एवम् आह -- शोकं मा कृथाः त्वं तु दैवीं संपदम् अभिजातः असि। हे पाण्डव धार्मिकाग्रेसरस्य हि पाण्डोः तनयः त्वम् इति अभिप्रायः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

दैवीं सम्पदमभिजातः प्रतिजातः।

— Madhvācārya

मूलम् / Sanskrit original

दैवीं सम्पदमभिजातः प्रतिजातः।

— Madhvācārya

दैवीं सम्पदमभिजातः प्रतिजातः।

— Madhvācārya

Verse 5 of 24 · Chapter 16