Chapter 11 · Verse 38
Viśvarūpa-darśana-yogaḥ · विश्वरूपदर्शनयोगः
त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम्। वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप।।11.38।।
tvamādidevaḥ puruṣaḥ purāṇa stvamasya viśvasya paraṁ nidhānam vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvamanantarūpa
Advaita — ŚaṅkaraŚaṅkara Bhāṣya
The Śaṅkara Bhāṣya text hasn't been added yet.
हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.
--,त्वम् आदिदेवः? जगतः स्रष्ट्टत्वात्। पुरुषः? पुरि शयनात् पुराणः चिरंतनः त्वम् एव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत् सर्वं महाप्रलयादौ इति। किञ्च? वेत्ता असि? वेदिता असि सर्वस्यैव वेद्यजातस्य। यत् च वेद्यं वेदनार्हं तच्च असि परं च धाम परमं पदं वैष्णवम्। त्वया ततं व्याप्तं विश्वं समस्तम्? हे अनन्तरूप अन्तो न विद्यते तव रूपाणाम्।।किञ्च --,
— Śaṅkarācārya
मूलम् / Sanskrit

Viśiṣṭādvaita — RāmānujaRāmānuja Bhāṣya
The Rāmānuja Bhāṣya text hasn't been added yet.
हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.
त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परं निधानम्? निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्? विश्वस्य शरीरभूतस्य आत्मतया परमाधारभूतः त्वम् एव इत्यर्थः।जगति सर्वो वेदिता वेद्यं च सर्वं त्वम् एव? एवं सर्वात्मतया अवस्थितः त्वम् एव परं च धाम स्थानं प्राप्यस्थानम् इत्यर्थः।त्वया ततं विश्वम् अनन्तरूप त्वया आत्मत्वेन विश्वं चिदचिन्मिश्रं जगत् ततं व्याप्तम्।अतस्त्वम् एव वाय्वादिशब्दवाच्य इति आह --
— Rāmānujācārya

Dvaita — MadhvaMadhva Bhāṣya
The Madhva Bhāṣya text hasn't been added yet.
हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.
।।11.37 -- 11.40।।कथं स्थाने इति तदाह -- कस्मादित्यादिना। पूर्णश्चासावात्मा चेति महात्मा। आत्मशब्दश्चोक्तो भारते -- यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते इति। तत्परं सदसतः परम्।असच्च सच्चैव च यद्विश्वं सदसतः परम्। [म.भा.1।1।23] इति भारते।
— Madhvācārya

Verse 38 of 55 · Chapter 11