New to the Gītā? Start here — a ninety-second orientation.

Chapter 10 · Verse 37

Vibhūti-yogaḥ · विभूतियोगः

Scroll ↓

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः⁠।।⁠10.37⁠।।

vṛṣṇīnāṁ vāsudevo'smi pāṇḍavānāṁ dhanaṁjayaḥ munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ

Word by word
vṛṣṇīnām
amongst the descendants of Vrishni
वृष्णिवंशियों में
vāsudevaḥ
Krishna, the son of Vasudev
वासुदेव
asmi
I am
हूँ
pāṇḍavānām
amongst the Pandavas
पाण्डवों में
dhanañjayaḥ
Arjun, the conqueror of wealth
धनञ्जय
munīnām
amongst the sages
मुनियों में
api
also
भी
aham
I
मैं
vyāsaḥ
Ved Vyas
व्यास
kavīnām
amongst the great thinkers
कवियों में
uśanā
Shukracharya
शुक्राचार्य
kaviḥ
the thinker
कवि

Translation

Save

Among the Vrishnis, I am Vaasudeva; among the Pandavas, I am Arjuna; among the sages, I am Vyasa; among the poets, I am Usanas, the poet.

— Swami Sivananda

वृष्णिवंशियोंमें वासुदेव और पाण्डवोंमें धनञ्जय मैं हूँ। मुनियोंमें वेदव्यास और कवियोंमें कवि शुक्राचार्य भी मैं हूँ।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,वृष्णीनां यादवानां वासुदेवः अस्मि अयमेव अहं त्वत्सखा। पाण्डवानां धनंजयः त्वमेव। मुनीनां मननशीलानां सर्वपदार्थज्ञानिनाम् अपि अहं व्यासः? कवीनां क्रान्तदर्शिनाम् उशना कविः अस्मि।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

वसुदेवसूनुत्वम् अत्र विभूतिः? अर्थान्तराभावाद् एव। पाण्डवानां धनञ्जयः अर्जुनः अहम्? मुनयो मननेन अर्थयाथात्म्यदर्शिनः? तेषां व्यासः अहम् कवयो विपश्चितः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

आच्छादयति सर्वं वासयति वसति चेति सर्वत्र वासुदेवः। देवशब्दार्थ उक्तः पुरस्तात् -- छन्दयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः। सर्वभूताधिवासश्च वासुदेवस्ततोऽस्म्यहम् इति मोक्षधर्मे। विशिष्टः सर्वस्मादा समन्तात्स एवेति व्यासः। तथा चाग्निवेश्यशाखायाम् सव्यासो वीति तमप् वै विः सोऽधस्तात्स उत्तरतः स पश्चात्स पूर्वस्मात्स दक्षिणतः स उत्तरत इति इति यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति च।

— Madhvācārya

Verse 37 of 42 · Chapter 10