New to the Gītā? Start here — a ninety-second orientation.

Chapter 10 · Verse 27

Vibhūti-yogaḥ · विभूतियोगः

Scroll ↓

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्⁠।।⁠10.27⁠।।

uccaiḥśravasamaśvānāṁ viddhi māmamṛtodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam

Word by word
uccaiḥśravasam
Uchchaihshrava
उच्चैःश्रवा
aśvānām
amongst horses
घोड़ों में
viddhi
know
जान
mām
me
मुझको
amṛta-udbhavam
begotten from the churning of the ocean of nectar
अमृत से उत्पन्न
airāvatam
Airavata
ऐरावत
gaja-indrāṇām
amongst all lordly elephants
श्रेष्ठ हाथियों में
narāṇām
amongst humans
मनुष्यों में
ca
and
और
nara-adhipam
the king
राजा

Translation

Save

Know Me as Ucchaisravas, born of nectar, among horses; Airavata among lordly elephants; and the king among men.

— Swami Sivananda

घोड़ोंमें अमृतके साथ समुद्रसे प्रकट होनेवाले उच्चैःश्रवा नामक घोड़ेको, श्रेष्ठ हाथियोंमें ऐरावत नामक हाथीको और मनुष्योंमें राजाको मेरी विभूति मानो।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

--,उच्चैःश्रवसम् अश्वानां उच्चैःश्रवाः नाम अश्वराजः तं मां विद्धि विजानीहि अमृतोद्भवम् अमृतनिमित्तमथनोद्भवम्। ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्? तम् मां विद्धि इति अनुवर्तते। नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि।।

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

सर्वेषाम् अश्वानां मध्ये अमृतमथनोद्भवम् उच्चैःश्रवसं मां विद्धि। गजेन्द्राणां सर्वेषां मध्येः अमृतमथनोद्भवम् ऐरावतं मां विद्धि।अमृतोद्भवम् इति ऐरावतस्य अपि विशेषणम्। नराणां मध्ये राजानं मां विद्धि।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

।।10.26 -- 10.27।।सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः।प्रीतिः सुखं कमानन्दः इत्यभिधानात् प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म [छां.उ.4।10।5] इति च। ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति (ज्ञा) जायमानं च पश्येत् [श्वे.उ.5।2] सुखादनन्तात्पालनाल्लीयनाच्च यं वै देवं कपिलमुदाहरन्ति इति,(सामवेदे) बाभ्रव्यशाखायाम्।

— Madhvācārya

Verse 27 of 42 · Chapter 10