New to the Gītā? Start here — a ninety-second orientation.

Chapter 2 · Verse 42

Sāṅkhya-yogaḥ · सांख्ययोगः

Scroll ↓

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः⁠।।⁠2.42⁠।।

yāmimāṁ puṣpitāṁ vācaṁ pravadantyavipaścitaḥ vedavādaratāḥ pārtha nānyadastīti vādinaḥ

Word by word
yām imām
all these
जो यह
puṣpitām
flowery
फूलों जैसी दिखाऊ
vācam
words
वाणी को
pravadanti
speak
कहते हैं
avipaścitaḥ
those with limited understanding
अल्पज्ञ लोग
veda-vāda-ratāḥ
attached to the flowery words of the Vedas
वेदवाद में रुचिवाले
pārtha
Arjun, the son of Pritha
हे पार्थ!
na anyat
no other
और कुछ नहीं
asti
is
है
iti
thus
ऐसा
vādinaḥ
advocate
कहनेवाले
kāma-ātmānaḥ
desirous of sensual pleasure
भोगों में तन्मय
swarga-parāḥ
aiming to achieve the heavenly planets
स्वर्ग को श्रेष्ठ माननेवाले
janma-karma-phala
high birth and fruitive results
जन्मरूप कर्मफल
pradāṁ
awarding
देनेवाली
kriyā-viśeṣa
pompous ritualistic ceremonies
अनेक क्रियाओं की
bahulām
various
बहुलतावाली
bhoga
gratification
भोग
aiśwarya
luxury
ऐश्वर्य की
gatim
progress
प्राप्ति के
prati
toward
प्रति

Translation

Save

The unwise, taking pleasure in the eulogizing words of the Vedas, utter flowery speech, saying, "There is nothing else," O Arjuna.

— Swami Sivananda

।।2.42 -- 2.43।। हे पृथानन्दन ! जो कामनाओंमें तन्मय हो रहे हैं, स्वर्गको ही श्रेष्ठ माननेवाले हैं, वेदोंमें कहे हुए सकाम कर्मोंमें प्रीति रखनेवाले हैं, भोगोंके सिवाय और कुछ है ही नहीं - ऐसा कहनेवाले हैं, वे अविवेकी मनुष्य इस प्रकारकी जिस पुष्पित (दिखाऊ शोभायुक्त) वाणीको कहा करते हैं, जो कि जन्मरूपी कर्मफलको देनेवाली है तथा भोग और ऐश्वर्यकी प्राप्तिके लिये बहुतसी क्रियाओंका वर्णन करनेवाली है।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

मूलम् / Sanskrit original

याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति । के अविपश्चितः अमेधसः अविवेकिन इत्यर्थः। वेदवादरताः बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ न अन्यत् स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं वादिनः वदनशीलाः।।ते च

— Śaṅkarācārya

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

मूलम् / Sanskrit original

याम् इमां पुष्पितां पुष्पमात्रफलाम् आपातरमणीयां वाचम् अविपश्चितः अल्पज्ञा भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः न अन्यद् अस्ति इति वादिनः तत्सङ्गातिरेकेण स्वर्गा देः अधिकं फलं न अन्यद् अस्ति इति वदन्तः। कामात्मानः कामप्रवणमनसः स्वर्गपराः स्वर्गपरायणाः स्वर्गादिफलावसाने पुन र्जन्मकर्मा ख्य फलप्रदां क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां तेषां भोगैश्वर्यगतिं प्रति वर्तमानां याम् इमां वाचं ये प्रवदन्ति इति सम्बन्धः।

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

मूलम् / Sanskrit original

स्युरवैदिकानि मतानि अव्यवसायात्मकानि न तु वैदिकानि। तेऽपि हि केचित्कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह यामिमामिति। यामाहुस्तयेत्यन्वयः। मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति। वेदवादरताः कर्मादिवाचकवेदवादरताः। वेदैर्यन्मुखत उच्यते तत्रैव रताः। नान्यदस्तीतिवादिनःपरोक्षविषया वेदाः परोक्षप्रिया इव हि देवाः ऐ.उ.1।14बृ.उ.4।2।2मां विधत्तेऽभिधत्ते माम् भाग.11।21।43 इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति।

— Madhvācārya

Verse 42 of 72 · Chapter 2