Anandoham Health

Chapter 13 · Verse 11

Kṣetra-kṣetrajña-vibhāga-yogaḥ · क्षेत्रक्षेत्रज्ञविभागयोगः

Scroll ↓

मयि चानन्ययोगेन भक्ितरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि⁠।।⁠13.11⁠।।

mayi cānanyayogena bhakitaravyabhicāriṇī viviktadeśasevitvamaratirjanasaṁsadi

Word by word
mayi
toward me
ca
also
ananya-yogena
exclusively united
bhaktiḥ
devotion
avyabhicāriṇī
constant
vivikta
solitary
deśa
places
sevitvam
inclination for
aratiḥ
aversion
jana-sansadi
for mundane society

Translation

Unswerving devotion to Me through the Yoga of non-separation, resorting to solitary places, and a distaste for the company of people.

— Swami Sivananda

मेरेमें अनन्ययोगके द्वारा अव्यभिचारिणी भक्तिका होना, एकान्त स्थानमें रहनेका स्वभाव होना और जन-समुदायमें प्रीतिका न होना।

— Swami Ramsukhdas (Gita Press)

The Three Darśanas

Three classical readings of this śloka

Advaita ŚaṅkaraŚaṅkara Bhāṣya

The Śaṅkara Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

--,मयि च इश्वरे अनन्ययोगेन अपृथक्समाधिना न अन्यो भगवतो वासुदेवात् परः अस्ति? अतः स एव नः गतिः इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः? तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी। सा च ज्ञानम्। विविक्तदेशसेवित्वम्? विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितः अरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः? तं सेवितुं शीलमस्य इति विविक्तदेशसेवी? तद्भावः विवक्तदेशसेवित्वम्। विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते। अतः विविक्तदेशसेवित्वं ज्ञानमुच्यते। अरतिः अरमणं जनसंसदि? जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायः जनसंसत् न संस्कारवतां विनीतानां संसत् तस्याः ज्ञानोपकारकत्वात्। अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम्।।किञ्च --,

— Śaṅkarācārya

मूलम् / Sanskrit

Viśiṣṭādvaita RāmānujaRāmānuja Bhāṣya

The Rāmānuja Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

।।13.11। आत्मनि ज्ञानम् अध्यात्मज्ञानं तन्निष्ठत्वम्? तत्त्वज्ञानार्थदर्शनं तत्त्वज्ञानप्रयोजनं यत् तत्त्वं तन्निरतत्वम् इत्यर्थः। ज्ञायते अनेन आत्मा इति ज्ञानम् आत्मज्ञानसाधनम् इत्यर्थः। क्षेत्रसंबन्धिनः पुरुषस्य अमानित्वादिकम् उक्तं गुणवृन्दम् एव आत्मज्ञानोपयोगि? एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधि इति अज्ञानम्।अथएतद् यो वेत्ति (गीता 13।1) इति वेदितृत्वलक्षणेन उक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते --

— Rāmānujācārya

Dvaita MadhvaMadhva Bhāṣya

The Madhva Bhāṣya text hasn't been added yet.

हिन्दी भाष्य-अनुवाद अभी जोड़ा नहीं गया है। The Hindi rendering of this bhāṣya hasn't been added yet.

मयीति।

— Madhvācārya

मूलम् / Sanskrit

मयीति।

— Madhvācārya

Verse 11 of 35 · Chapter 13